SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ 14 अलंकारमाणिहारे स्थेना स्थैर्येण हेतुना अच्युते लक्ष्मी निरचैषं नेयं जलधरे विद्युत् किंतु श्रीनिवासे श्रीरिति निरणैषमित्यर्थः । पूर्वत्र प्रत्यक्षमात्रं, इह तु विशेषदर्शनजन्यसंशयोत्तरप्रत्यक्षमिति विशेषः ॥ इत्यलङ्कारमणिहारे प्रत्यक्षालंकारसरो द्वादशोत्तरशततमः अथानुमानालङ्कारसरः (११३) अनुमानं लिङ्ग-जन्यलिङ्गिज्ञानमुदाहृतम् ।। लिङ्गं हेतुः धूमादिः, लिङ्गि साध्यं वह्नयादिः । तथाच हेतुजन्यसाध्यज्ञानमनुमितिरित्यर्थः । एतच्च साधारणमनुमानम् । अस्य च कविप्रतिभोन्मिषितत्वेन सुन्दरतायां काव्यालंकारता॥ यथा भुवनतलं शीतलयञ् शिशिरमयूखस्स्वकारणं भगवन् । श्रीनिलय मानसं तव करुणाशिशिरं परं प्रकाशयति ॥ २०२३ ॥ प्रकाशनं स्फुटबोधनं तश्चानुमित्यात्मकम् । अत्र च भगघन्मानसशिाशरतारूपलिङ्गिनः शिशिरमयूखकर्तृकभुवनतलशीतलीकरणलक्षणलिङ्गजन्यत्वेनानुमानालंकारः । भगवन्मानसं करुणाशिशिरं भुवनतलशीतलीकरणनिपुणशिशिरमयूखजनिस्थानत्वादिति प्रयोगः॥ यथावा . सामोदबाष्पपूरैः प्रेमोदयसप्रपञ्चरोमाञ्चैः । भ
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy