SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारसर: (१२२) यथावा यस्य यशोभिः व्याप्तो लोकः हरिणः पाण्डुरस्सन् पयोनिधीयति आत्मानं क्षीराब्धिमिवाचरति । पयोनिधिशब्दात् 'उपमानादाचारे' इति क्यच् । तं स्वयंभुवं अनितरकारणकं शंभुवं सुखभूमिं ईशं सर्वेश्वरं रमाधिभुवं श्रीवल्लभं शरणं व्रजेयमिति योजना । अत्र हरिण इति प्रथमान्तस्य यस्येति षष्ठ्यन्तपदसमभिव्याहारात् करिण इतिवत् षष्ठयन्ततया प्रयोनिधीयतीत्यत्र पय इति च्छेदेन निधीयतीति निपूर्वकाद्वाञः कर्मणि परस्मैपदितया व्रजेयमित्यत्र व्रजे अयमिति च्छेदेन व्रजतेरात्मनेपदितया शंभुवमित्यत्र समभिव्याहृतस्वयंभुवमितिवत् उवङादेशवत्तया चापशब्दत्वेनावभासादपशब्दवदाभासत्वम् ॥ 231 श्रीनाथोर्थिजनानामभीष्टदानाय कल्पति वृषाद्रौ । प्रत्यर्थिजनानामप्यनिष्टदानाय कल्पति नितान्तम् ॥ २३१४ ॥ पूर्वार्धे कल्पति कल्पतरुरिवाचरति । उत्तरार्धे कल्पति कल्पः प्रलय इवाचरतीत्यर्थः । ' कल्पस्तु प्रलये न्याये शास्त्रे ब्रह्मदिने विधौ । सुरद्रुमे विकल्पे च प्रत्ययश्चेत्समार्थता' इति रत्नमाला | अत्र कल्पतीति लपधातोः परस्मैपदवदवभासादपशब्दाभासत्वं, तस्य नित्यमात्मनेपदित्वात् ॥ 140000)
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy