SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारसरः (१२२) 223 र्यावृत्तविशेषैरेव उदाहरणप्रदर्शनस्य प्रतिश्रुततया तेषामसमगणपादतया पादप्रातिलोम्यस्य दुर्घटत्वेन पादभागार्धश्लोकप्रातिलो. म्यावृत्तिः प्रदर्श्यते ॥ तत्र पादभागप्रातिलोम्यावृत्तिर्यथा सरसाशय यशसा रस इति विदितो वितमसि स्थितो यस्स्थाने । वनमालाली लीलामानव राम त्वयाऽमुनाऽवाप्ताऽहो ॥ २३०३ ॥.... सरसः आशयः अभिप्रायो यस्य तस्य संबुद्धिः। हे लोलामानव स्वेच्छागृहीतमानुषविग्रह हे राम! यः त्वं रस इति 'रसो वै सः' इति श्रुतानन्दमयरूप इति यशसा विदितस्सन् वितमसि स्थाने परमे व्योम्नि स्थितोऽसि । अमुना ईहशेन त्वया वनमाला. नां काननच्छटानां आली श्रेणी प्राप्ता अहो अप्राकृतदिव्यधामावस्थितस्य प्राकृतदण्डकारण्यावाप्तिराश्चर्यावहति भावः । अत्र प्रथमतृतीयपादभागयोस्सस्वरव्यञ्जनपञ्चकयोः प्रातिलोम्येन यमकविशेषः॥ गडं जनयनयनं प्रभविष्यति तिष्यविभव एव हरे । तव नानामाम्नानादपरा न नरापदपनयेऽस्ति गतिः ॥ २३०४॥ हे हरे ! गर्यो निन्द्यं अयनं मार्ग जनयन् जनानमार्गे प्रवर्तयः नित्यर्थः । तिष्यस्य कलेः 'तिष्यः पुष्ये कलियुगे'. इत्यमरः । विभव एव प्रभविष्यति प्रभुतां प्रपत्स्यत इत्यर्थः । नात्र युगे यागदानतप.प्रभृत्युपायानुष्ठानावकाश इति भावः । तर्हि कथं दोषनिस्तार इत्यत अह-तव 'हरिहरति पापानि' इति प्राख्यातदि
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy