SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारसरः (१२२) 199 - इति श्रीभागवतायुक्तोति भावः । अथापि तं शमनं यमं विन्दते प्राप्नोतीति विरोधः । परिहारस्तु शं अनन्तमिति छेदेन अनन्तं अपरिच्छिन्नं शं सुखं परब्रह्मानुभूतिसुखमिति भावः तस्यैवानन्तत्वात् । विन्दते प्राप्नोतीति । अत्रापि प्रथमपादान्त्यभागस्य पादान्तरेष्वावृत्तिः ॥ यथावा याऽघं तपसाऽधयति त्वत्कीर्तिसुधां नृणां ततिस्सा धयति । अथ भक्तिं साधयति त्वय्यच्युत तां भवांश्च साधयति ॥ २२६४ ॥ हे अच्युत! या नृणां ततिः तपसा कृछ्चान्द्रायणादिना अधं पापं अधयति अधःकरोति तिरस्करोतीत्यर्थः । अधस् इति सान्ताव्ययात् णाविष्ठवद्भावे टिलोपः । सा नृणां ततिः त्वत्तीर्तिसुधां धयति पिबति । धेट् पाने' कर्तरि लट् । तत्फलमाहअथेति । अथ त्वयि भक्ति साधयति निष्पादयति । भवांश्च एवमुपासितस्त्वमपि तां नृणां ततिं साधयति बाढंकराति साधं करोतीत्यर्थः । बाढशब्दात् णाविष्ठवद्भावे ‘अन्तिकबाढयोर्नेदसाधौ' इति साधादेशः। द्वितीये साधुशब्दात् णाविष्ठवद्भावे टिलोप इति भिदा ॥ यथावा करिणो वरद हरे ते चरणे मम दुरितमघनुद हरेते। तद्व्यर्थ दहरे ते न ध्याते श्रीपते यदहरेते ॥ २२६५ ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy