SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारस 195 रक्षरात्मकस्य द्वितीयादिपादत्रयभागेष्वावृत्तिः । प्रथमतृतीययोः पञ्चानां वर्णानामावृत्तिरप्यस्तीति विशेषश्च ॥ मम तावदियं सुतराममता दुरिता रच्युतात्यमिता । ममतां वहता भवता भवतापहता क्षमापदं गमिता ।। २२५८ ॥ हे अच्युत! तावदिति साकल्ये। सुतरां अमता अनभ्युपगता अत्यमिता मम त्वां प्रपन्नस्यति भावः । दुरिताळिस्तावत् सर्वाततिरित्यर्थः । ममतां मदीयोऽयमिति वात्सल्यमित्यर्थः । वहता भवतापहृता संसारसंज्वरनिरासकेनेति स्वापराधक्षमादक्षताभिप्रायकम् । भवता क्षमापदं क्षमागोचरतां गमिता नीतेत्यर्थः । अनेन 'न्यासेन क्षपयन्ननभ्युपगतप्रारब्धखण्डं च नः' इत्युक्तोऽर्थस्संगृहीतः । अत्र प्रथमपादादिमभागस्य ममतेत्यक्षरत्रयात्मकस्य द्वितीयतृतीयपादादिभागमात्रे आवृत्तिः । न तु तुरीयपादादिभागे। अत्र यमकान्तरमप्यवधेयम् ॥ स्तावकमहिशिखरिशशिंस्तावकचरितस्य धन्यमिह मन्ये । भावुकमखिलं सुभगंभावुकमेनं यतो नयसि मनुजम् ॥ २२५९ ॥ हे अहिशिखरिशशिन् ! तावकचरितस्थ स्तावकं स्तोतारं जनं धन्यं मन्ये । यतो हेतोः सुभगंभावुकं एनं मनुजं अखिलं भावुक कुशलं 'भावुकं भविकं भव्यं' इत्यमरः । नयसि । तस्मादमुं धन्यं मन्ये इति योजना । अत्राद्यपादाद्यभागस्य द्वितीयपादादिभागे तृतीयाद्यपादस्य तुरीयपादादिभागे चावृत्तिः ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy