SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारसरः (१२२) 177 समासैक्ये तद्धितायां स्यात्समासासमामयोः । नामावृत्तौ पुनस्त्रेधा लाटानुप्रास ईरितः ॥ एकस्मिन् समासे भिन्ने वा समासे समासासमासयोर्वा नाम्नः प्रातिपदिकस्य चावृत्तौ लाटानुप्रासः पुनस्त्रिविधो निष्पद्यते ॥ यथा अमृतामृतकरशिशिरा शिशिरावनिधरधतियासीमा। सीमा पुरातनगिरां सा मां परदेवताऽवतादानिशम् ॥ २२३९ ॥ ___ दयाविषये असीमा अविद्यमानसीमा अतिवेलदयोमिळेत्यर्थः। दयायास्प्तीमा अवधिरिति वा। अमृतामृतेत्यत्र अमृतेति प्रातिपदिकस्यैकस्मिन् समासे शिशिरेत्यस्य भिन्ने समासे दया सीमासीमेत्यत्र समासासमासयोश्चावृत्तिः ॥ पञ्चप्रकार एवं च लाटानुप्रास ईरितः ॥ वाक्यावृत्तावेकः पदावृत्तावन्यः एकस्मिन् समासे नामावृत्तावितरः भिन्ने समासे नामाटत्तौ पर: । समासासमासयोर्नामावृत्तावपर इति पञ्चविधो लाटानुप्रास उक्तः सितकरकररुचिरविभा विभाकराकारधरणिधरकीर्तिः । पौरुषकमला कमला साऽपि तवैवास्ति नान्यस्य ॥ इत्याद्युदाहरतां काव्यप्रकाशकारादीनामनुरोधेन ॥ अत्रेदं चिन्त्यम्-द्वयोरपि करशब्दयोर्वाच्य एव विश्रान्ततयाऽन्यपरत्वावरहान्नस्ति तात्पर्यभेदः, तस्यैव तजीवातुत्वात् ।
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy