SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारसर: (१२२) अत्र पादचतुष्टयेऽपि व्यञ्जनयुग्मानामव्यवधानेनाट त्तेश्छेकानु प्रासः ॥ 173 वृत्त्यनुप्रासः उल्लङ्घय संख्यानियमं पौनरुक्त्यं भवेद्यदि । एकद्वित्र्यादिवर्णानां वृत्त्यनुप्रासमूचिरे ॥ अत्रैकस्य व्यञ्जनस्य सकृदावृत्तौ वैचित्र्यविरहात्सामथर्यादसकृदावृत्तिर्लभ्यते । द्वयोस्तु सकृदेव । अन्यथा छेकानुप्रासो भवेत् । व्यवधाने त्वसकृदात्तावपि न विरोधः । त्रयादीनां सकृदसकृद्वा व्यवधानेनाव्यवधानेन वा आवृत्तिर्द्रष्टव्या । वृत्तिशब्देन वैदर्भीर्यादयो विवक्षिताः । तदुपलक्षितोऽनुप्रासो वृत्त्यनुप्रासइत्याहुः ॥ यथा मुरघातुकमरतकवरविसृमररुचिनिचयमेचकीभूता । आलसति नीलचेलकनिचोलितेवाहिभूभृतो भूमिः ॥ २२३१ ॥ फणिवरणीधररमणी रमणीयमणीललन्तिकालतिका । उन्मीलति काऽपि महामहिममही देवता मुदे जगताम् ॥ २२३२॥ कोमलकमलजरुचिमदहररुचिमदुदारलोचने देवे । मुदिरमदरभ सनिर्जयरभसि निजाङ्गेऽस्तु मम मनो लग्नम् ॥ २२३३ ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy