SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सङ्करसरः (१२१) 147 यथावा सकलजगदधिपति त्वां वृषगिरिपतिरिति वदन्तु नाम जनाः। विष्णुस्स पर्वतानामधिपतिरिति कथमनादिवाग्वते ॥ २२०५ ॥ जनाः पामरा इत्यर्थः । ‘जनो लोके महर्लोकात्परलोकेऽपि पामरे' इति विश्वः। अत्र निरङ्कशनिखिलजगदैश्वर्यस्य भगवतश्श्रीनिवासस्य यत्किश्चित्परिच्छन्नशैलमात्राधीश्वरत्वं श्रुत्या प्रतिपादितमप्यनुपादेयमेवोति तत्प्रतिक्षेपाय 'विष्णुः पर्वतानामधिपतिः' इति श्रुतेरुपन्यासाच्छन्दप्रमाणालंकार: पूर्वोत्तरार्धप्रतिपाद्यसमविषमालंकाराभ्यामेकवाचकानुप्रविष्ट ॥ विपुलभवाम्भोनिधिशुक्तिरोहिताश्चोहृतास्ततः काले। मुक्तत्वाद्दिव्यगुणास्सन्मणयोऽच्युत भवन्ति ते ग्रसराः ॥ २२०६ ॥ हे अच्युत! विपुल: यो भवाम्भोनिधिः संसारसागरः तस्य शुकू तत्सम्बन्धिनी शोकः इदमुपलक्षणमशनायापिपासायूमीणाम् । तया तिरोहिताः आच्छादितस्वाभाविकस्वस्वरूपा इति यावत् । अन्यत्र विपुलं यथा तथा भवः विद्यमानः यः अम्भो. निधिः तस्य याः शुक्तयः मुक्तास्फटाः तासु रोहिताः स्वातिवर्षजलबिन्दुभिः प्रादुर्भाविता इत्यर्थः । चशब्दो भिन्नक्रमः । ततः काल 'विधिपरिणतिभेदाद्वीक्षितस्तेन काले' इत्युक्तप्रक्रियया याहच्छिकादिसुकृतपरिपाकावसरे । अन्यत्र नद्यां तत्र स्वातिगे शुक्तिस्था वर्षबिन्दवः । षड्भिर्मासैर्घनीभूता जायन्त शुद्धमौक्तिकाः ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy