SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ संकरसरः (१२१) 145 रीसाम्यमभजतेति भावः । अत्र विषमप्रत्यनीकपरिकराराणामेकवाचकानुप्रवेशः ।। यथावानिर्भासिलता त्वत्तनधुताऽथ तत्परिभवेच्छयाऽवनितनये। स्याहाऽलङ्काविष्टा भ्रष्टा स्वार्थाद्भवेत्तु निर्मासिकता ॥ २२०२ ॥ __ हे अवनितनये जनकनन्दिनि! इदं च वक्ष्यमाणार्थानुगुण्याय । निर्भासिनी अतिशयेन भासनशीला च सा लता च निर्भासिलता। त्वत्तन्वा तावकमूर्त्या धुता तिरस्कृतति यावत् । अथ तस्याः त्वत्तन्वाः परिभवेच्छया लङ्काविष्टा स्याद्वा त्वत्पराभवाय एकाक्ष्येककर्णादिवदियमपि लङ्कां प्रविशतु वा। ताव. ताऽपि निर्भाः विगतभाः सिकता वालुका सती स्वार्थात् स्वाभीप्सतत्वत्तनुपराभवरूपात्प्रयोजनाद्रष्टा भवेत् । अनवाप्तमनोरथा प्राप्तानिष्टा च भवेदित्यर्थः ॥ पक्षे निसिलताशब्दः अलं अविद्यमानलकारं यथास्यात्तथा काविष्टा तत्रैव प्रवेशितककरा सती नि सिकतेति नि प्पन्ना स्वार्थात् स्वाभिधेयात् प्रकाशमानलतात्वरूपात् भ्रष्टा भवेत् नि सिलतेत्यानुपूर्व्या यादृशर्थः प्रत्याय्यते नि सिकतेत्यानुपूाः तादृशार्थप्रत्यायनायोगादिति भावः । अत्राप्रस्तुतप्रशंसाविषमौ एकवाचकानुप्रविष्टौ ॥ यथावा त्वत्पदनखरुचिमोषणकृतरुचिरपशदतया फणिगिरीन्दो । विशदमयूखोऽपि परं विमयूख भवति नात्र संदेहः ॥ २२०३ ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy