________________
126
"
अलंकार मणिहारे
'शास्ता विष्णुरशेषस्य ' इत्युक्तेश्च । ते तव अपवादः आज्ञा-त्वत्कर्तृकं शासनं अपवाद: निन्देति वा । त्वत्कर्मकं निन्दनमित्यर्थः । अपवादौ तु निन्दाशे" इत्यमरः । अन्तरङ्गं आत्मजतया अतिमात्रप्रत्यासन्नं 'पुत्रो वै हृदयम् । आत्मा वै पुत्रनामासि' इत्यादिश्रुतयोऽत्रानुसंधेयाः । विधिं चतुर्मुखमपि नित्यं विलोडयति कम्पयति । एतच्छनानातिवृत्तौ किं भविष्यतीति महतो भयाद्ब्रह्मादयोsपि कम्पन्त इति भावः । 'यदिदं किंच जगत्सर्वं प्राण एजति निस्सृतम् । महद्भयं वज्रमुद्यतम्' इत्यादिश्रुतिभ्यः । परं अन्यं मरुत्तरणिपावकत्रिदशनाथकालादिकं किमुत विलोडयतीति किमु वक्तव्यमित्यर्थः । आत्मजस्यैव शासनान्निन्दनाद्वा कम्पने अन्येषां का कथेति भावः । अन्यत्र अखिलानां गीर्वाणपदानां संस्कृतशब्दानामनुशासनं शिक्षणं तद्विधातुः 'अथ शब्दानुशासनम्' इति प्रतिज्ञाय महाभाष्यं विधातुरित्यर्थः । ते त्वत्संबन्धी त्वन्निर्णीत इति यावत् । अपवादः अपवादशास्त्रं नित्यं अन्तरङ्गमपि अन्तरङ्गं च विधिं शास्त्रं विलोडयति बाधते । परं परशास्त्रं किमुत बाधत इति किमु वक्तव्यमित्यर्थः । अन्तरङ्गबाधकस्यापवादस्य स्वबाध्यबाध्यबाधकत्वं किमाश्चर्यमिति भावः । यत्परिभाष्यते— परनित्यान्तरंङ्गापवादानामुत्तरोत्तरं बलीयः' इति । अत्र वेदान्तशास्त्रीयेऽर्थे शब्दशास्त्रीय व्यवहारारोपात्समासोक्तिः कैमुत्येनार्थसं सिद्धिरूपकाव्यार्थापत्तिश्चेत्युभयमे कवाचकानुप्रविष्टम् ॥
यथावा
त्वयि विन्यस्तात्मभरो नीलमणीमौळिरवरवर्णोऽपि । त्वत्तो विन्दत्युचैश्रियं श्रियः कान्त दुर्लभामितरैः ।। २१८५ ॥
·