SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 118 अलंकार मणिहारे तः । उत्तुङ्गशृङ्गसंगत उचितं भूभृद्वरोऽयमहि शैलः ॥ २१७७ ॥ अन्यत्र क्षत्रध नक्षत्रपथं अन्तरिक्षं उल्लङ्घत इति तथोक्तः । मनतिवर्तीत्यर्थः । नवया घनराज्या जलद श्रेण्या अभिषेकं अभिगमितः । अन्यत्र नवं प्रत्यग्रं घनं सान्द्रं यत् राज्यं तस्मिन् अभिषेकं अभिगमितः । उत्तुङ्गैः शृङ्गैः शिखरैः सानुभिर्वा उत्तुङ्गेन शृङ्गेण प्राधान्येन प्रभुत्वेन वा संगतः संबद्धः । शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्र के । विषाणोत्कर्षयोः' इति मेदिनी । 'शृङ्गं प्राधान्यसान्वोश्च' इत्यमरश्च । भूभृद्वरः राजवरेण्यः गिरिश्रेष्ठश्च । अत्र काव्यलिङ्गसमालंकारयोश्श्लेषानुप्राणितयोरेकवाचकानुप्रवेशः ॥ यथावा " स्वनयनजयिभिर्हरिधृत्वैदूर्यैर्निर्जितोऽय माजरः । मारो यदि जातु स्यात्तदाऽपि हरिनीलविग्रहाजितस्स्यात् ॥ २१७८ ॥ मार्जारः बिडाल: मार्जारशब्दश्च स्वनयनजयिभिः निजलाचनरुचिविजित्वरैरिति यावत् हारेधृतैः भगवता भूषणतया विधृतैः वैदूर्यैः वालवायजमणिभिः । विदूरात्प्रभवन्ति वैदूर्याणीति विग्रहः । प्रभवति' इत्यधिकारे 'विदूराञ्ञयः' इति ज्यः । 'वैदूर्य वालवायजम्' इति विश्वः । अत्र विदूरशब्दो बालवायस्यादेशः पर्यायो वा तत्रोपचरितो वा । तेन वालवायाद्विरेरसौ प्रभवति न विदूरान्नगरात् तत्र तु संस्क्रियत इत्याक्षेपः प्रत्युक्तः । यदुक्तं ,
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy