SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ संकरसर : (१२१) 111 योः' इति मेदिनी। तस्याः अनुचरं सहायम् । पक्षे स्ववशेनैव स्वेच्छयैव अनुचरः। 'यत्र कामगमो वशी' इत्युक्तरत्यिा सकल लोकचारी स्वतन्त्र इत्यर्थः । तं तथोक्तं, पद्मकेन बिन्दुजालकेन सह वर्तत हात सपद्म: तम् । पक्षे पद्मया श्रिया सह वर्तमानं, शैषिके कपि 'आपोऽन्यतरस्याम्' इति वैकल्पिको हस्वः। सुकरं शोभनशुण्डादण्डं रमणीयपाणिं च । नागानां गजानां आगमेन प्राप्तया सविहारं नागागामे फणिशैले सविहारं च । धीरगम्भीर देवकुञ्जरं देवः कुञ्जर इवेति विग्रहः देवश्रेष्ठं श्रीनिवासं योगात् युक्तेः सन्नाहादुपायाद्वा पक्षे ध्यानात् विन्देय 'योगस्सन्नहनोपायध्यानसंगतियुक्तिषु' इत्यमरः ॥ यथावा अतिवृद्धिमदामोदप्रदानतो विवशयन्सदाळिवरान् । दैवतनागः फाणगिरिवनचारी सकला. न्वितो जयतु ॥ २१६७ ॥ अतिवृद्धिमतः आमोदस्य आनन्दस्य पक्षे अतिशयिता वृद्धिर्यस्य स तथा यो मदामोदः तस्य दानपरिमळस्य प्रदानत: सदाळिवरान् सतां ब्रह्मविदां आळेः पङ्क्तेः ये वराः श्रेष्ठाः तान् । पक्षे सदा अळिवरान् भ्रमरश्रेष्ठान् विवशयन्, सकला संपूर्णा भा दीप्तिः 'तस्य भासा सर्वमिदं विभाति' इत्यायुक्ता तया अन्वितः । पक्षे सः कलभैः त्रिंशद्वर्षगजविशेषैः अन्वितः दैवतनागः देवश्रेष्ठः भगवान् जयतु । 'स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः' इत्यमरः । अत्र पद्यद्वयेऽपि देवकुञ्जरं दैवतनाग इत्यत्र उपमितसमासाश्रयेण सामान्यधर्मप्रयोगो नोपमाबाधकः । ‘बृन्दारककुञ्जरैः पूज्यमानम्' इति सामान्यधर्म
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy