SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ संकरसरः (१२१) 109 तत्रोपमायास्साधको रूपकंप्रति तटस्थो न्यायो यथाश्रियमस्माकं तन तामित्याश्रयतां य अदधीत न ताम् । गमयन्विपदं तनुतां पदकमलममुष्य संपदं तनुताम् ॥ २१६३ ॥ ____ अस्माकं तां श्रियं मुक्तिसंपदं तनु कुरु इति आश्रयतां जनानां यः श्रीनिवासः विपदं भवमयीं आपदं तनुतां कृशतां गमयन् सन् तां तत्प्रार्थितां श्रियं आदधीत नु कुर्वीत च । नु इत्येतदव्ययं पूर्वोक्तविपत्तनूकरणसमुच्चये । 'प्रत्युक्तायुपमाने च विषादोप्रेक्षयोरपि । नु पादपूरणे शेयो जिज्ञासायां समुच्चये' इति शेषः । अमुष्य भगवतः पदकमलं संपदं सर्वप्रकारां श्रियं तनुतां कुरु ताम् । अत्र संपदं तनुतामिति मुख्यतया प्रतिपाद्यमानसर्वप्रकारश्रीप्रदानरूपार्थः भगवत्पद एवानुकूल्यमश्नुत इति पदं कमलमिवेत्युपमायास्साधकः । पदमेव कमलमिति रूपकस्य तु नाञ्जस्येन, कमले विवक्षितपत्प्रदानस्य मुख्यतयाऽसवगतेः । ननु तर्हि रूपकबाधिकैव किं न स्यादुपमेति शङ्कय, कमलेऽपि सौरभादिरूपमुख्यसंपत्प्रदानसंभवात् । अतो न रूपकबाधकत्वं, किंतु तट. स्थतैव ॥ रूपकसाधक उममांप्रति तटस्थो यथा साधुगतिप्रतिरोधकमाधुन्वानाऽखिलं तमःप्रसरम् । माधवमुखामृतांशोराधत्तां नयनसंमदं ज्योत्स्ना ॥ २१६४ ॥ साधु यथास्यात्तथा गतेः संचरणस्य अन्यत्र सन्मार्गगमनस्य अर्चियदिगतेर्वा प्रतिरोधकम् । अन्यत्सुगमम् । अत्र मुख
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy