SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ संकरसरः ( १२१ ) ( उद्धार भरं वहसे वृद्धिं वितरन्कुतोऽन्यथाऽमीषाम् ॥ २१५० ॥ हे हरे ! इदं इह विवक्षितार्थोपस्कारकम् । देवर्षिपितॄणां ऋणेभ्यः पितॄणेत्यत्र अकस्सवर्णे' इति सवर्णदीर्घः । विनतान् शरणागतान् मुमोचयिषसि नूनं मोचयितुमिच्छतीति स म्भावये । अन्यधा अमीषां विनतानां संबन्धिनीं एतत्प्रदेयामिति यावत् । वृद्धिं उत्तमर्णेन मूलातिरिक्तं ग्राह्यं द्रव्यं वृद्धिः । तां । पक्षे वृद्धि अभ्युदयं मुक्तैश्वर्यरूपां समृद्धिं वा 'वृद्धिस्तु वर्धने योगेऽप्यष्टवविधान्तरे । कालान्तरे चाभ्युदये समृद्धावपि योषिति' इति मेदिनी । वितरन् नियमेन प्रतिपादयन् । भगवत्पक्ष - 'लक्षण हेत्वो:' इति शता, हेतुरिह फलं । वितरी तुमित्यर्थः । उद्धारस्य ऋणस्य भरं अतिशयं 'स्याहणं पर्युदञ्चनम् । उद्धारः' इत्यमरः । पक्षे ' तेषामहं समुद्धर्ता मृत्युसंसारसागरात्' इत्युक्तरीत्या संसृतिसिन्धोरुद्धृतिभारं वहसे । अत्र वृद्धिदानपूर्वकोद्धारभारवहनान्यथानुपपत्त्या भगवतः ऋणविमोचनेच्छा कल्प्यते । देवर्षिभूतात्मनृणां पितॄणां न किंकरो नायमृणी च राजन् । सर्वात्मना यश्शरणं शरण्यं नारायणं लोकगुरुं प्रपन्नः ॥ इति श्लोकार्थोऽत्रानुसंहितः । अत्र वृद्धयुद्धारशब्द श्लेषाभत्तिकाभेदाध्यवसायमूलातिशयोक्तया उन्नह्यमानैव उक्तार्थापत्तिः भगवति प्रतिभूव्यवहारारोपलक्षणसमासोक्तिसहकृतैवान्नह्यते । उक्तश्लेषोपकृतत्वपरस्परापेक्षचारुतोन्मीलनैककालिकत्वान्यनयो 97 स्तुल्यानीति समप्राधान्यम् ॥ ऐककालिकताभावेऽप्यलंकारद्वयं यदि ।
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy