SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 92 अलंकारमणिहारे योस्संकरमाहुः । तदेदमुदाहरणम् देवे नानावेदे प्रथिते नित्यं स्थिता नतानवितुम्। देवेनानावेदेवैषा मामपि रमा क्षमाजलधिः॥ नानावेदे नानाविधश्रुतौ, जात्येकवचनम् । प्रतिथे प्रसिद्धे सर्वेश्वरत्वेन सर्वेवेदप्रतिपाद्ये इत्यर्थः । देवे भगवति श्रीनिवासे नतान् शरणागतान् अवितुं त्रातुं नित्यं स्थिता क्षणमप्येतदेवस्थानविरहे विनतजनापराधदर्शनजनितक्रोधोष्मलतया नैतद्रक्षणाभिमुख्यं भगवान् भजेतेति भावः । देवेनाना आनयति प्राणयतीत्याना पचाद्यच् देवानां इनाः प्रभवः इन्द्रादयो लोकपालाः तेषां आना प्राणयित्री क्षमाजलधिः मादशापराधमर्षणनिपुणेति यावत् । एषा रमा मामपि अनवरत बहुविधापराधपरंपराकरणधुरीणमपीति भावः । अवेदेव रक्षेदेवेति संभवोक्तिः ॥ यथावा साऽवतु वृषगिरिभूषा सारसनाभा नदीनभाना सरसा । तद्भूषा साऽपिच या सारसनाभा नदीनभा नासरसा ।। २१४५ ॥ < सारसनामा पद्मनाभा 'अच् प्रत्यन्वव इत्यत्र अजिति योगविभागादच् । पृषोदरादित्वाद्वा अकारान्तत्वं निर्वोढव्यम् । नदीनमाना नदीनां इनः प्रभुः उदन्वान् तस्य भानमिव भानं प्रकाशो यस्यास्सा जलनिधिश्यामलमूर्तिरित्यर्थः । सरसा सानु - रागा सानन्दा वा भूसहिता वा । सा वृषागरिभूषा श्रीनिवास इति यावत् । अवतु इति पूर्वार्धार्थः । तद्भूषा तस्य श्रीनिवासस्यापि भूषा आभरणप्राया साऽपिच श्रीरपीति भावः । अव ,
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy