________________
काव्यलिङ्गसर: (६२)
89
अत्र पूर्वार्धवाक्यार्थेन जगद्बन्धुभूतलोचनद्वितयवत्त्वरूपेणोत्त रागतस्य भगवत शरणागतबन्धुता निर्णय रूपवाक्यार्थस्य कैमुत्येन समर्थनमिति विच्छित्तिविशेषः ॥
यथावा
त्वदपाङ्गान्वयभाजस्तदभाजश्चापि भवति परभेदः । आद्यो विष्टपभूत्स्यादन्त्यः फणिशैलनाथ विष्टरभृत् ।। १५६५ ।
परभेदः उत्कृष्टो भेदः महान् भेद इत्यर्थः । पकाररेफाभ्यां भेद इत्यर्थोऽप्युपकार्यः । आद्यः त्वदपाङ्गान्वयभाक् विष्टपभृत् भुवनभर्ता लोकपाल इत्यर्थः । अन्त्यः तदभाक् विष्टरभृत् परेषां पीठाद्यासनभृत् किंकर इति यावत् । दर्भमुष्टिधारी इतरयाजनादिकर्तेति यावदिति वा । विष्ट विटपी दर्भमुष्टिः पीठाद्यमासनम्' इत्यमरः । लोकपालान्यकिंकरयामहान् भेद इति भावः । विष्टपभृद्विष्टरभृच्छन्दयोः पकाररेफाभ्यामेव भेदः । अन्यवर्णानुपूर्व्या उभयत्र तुल्यत्वादिति परभेद इत्युक्तम् । अत्र पूर्वप्रतिपादितपरभेदभवनरूपवाक्यार्थस्यैकस्योत्तरार्धवाक्यार्थाभ्य द्वाभ्यां समर्थनं व्यतिरेकगर्भमिति पूर्वेभ्यो वैलक्षण्यम् ॥
यथावा
दूरेऽपसर तमस्त्वं चक्रधरो मम चकास्ति हृदि नित्यम् । यदि चेष्टसेऽल्पमपि वा तवावशि
येत नोत्तमाङ्गमपि ॥ १५६६ ॥
हे तम इति तमोगुणाभेदेनाध्यवसितस्य राहोस्संबुद्धिः । अत्र तमसो दूरापसर्पण अनपसर्पणेन यरिकाचेदपि चेष्टसे पूर्ववत्तALANKARA-III.
12