SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ काव्यापत्तिसरः (६१) . 71 अत्राभावेनाभावापादनम् । प्रकृतादप्रकृतस्यापाद्यमानस्य न्यूनत्वं च ॥ यथावा क्षमयाऽप्यसमधिगम्ये रमया हरिहृदयसदनया साम्ये । इतरासां महिषीणां सुतरां वार्ताऽपि तस्य दूरतरा ॥ १५४० ॥ अत्राप्यभावेनाभावापादनम् । प्रकृतादप्रकृतस्य न्यूनता च ॥ अप्रकृतेन प्रकृतस्यापादनं यथा अधिजलधि निमजन्तं मधुसूदन मन्दरं तमुदधार्षीः । भवजलधौ प्लवमानं मामुद्धत कियान्प्रयासस्ते ॥ १५४१ ॥ अत्राप्रकृतात्तथाविधमजन्मन्दरोद्धरणवृत्तान्तात् प्रकृतस्या. पततो भवजलधिप्लवमानोद्धरणस्य न्यूनता। किंच आपततः पुनः रर्थान्तरस्योपादानानुपादानाभ्यां संभवत्यस्या वैचित्रयम्। तत्रापततोऽर्थस्योपादाने उदाहरणानि दर्शितानि ॥ अनुपादाने यथा वरुणालयधरणागतमणयोऽपि वचन गणयितुं शक्याः। फणिगिरिमणेस्तु सुगुणा गणयितुममुनैव नैव शक्यास्म्युः ॥ १५४२ ॥ ____ अमुनैव श्रीनिवासेनैव । अत्र श्रीनिवासादन्येषां का कथेत्यापतदर्थान्तरमनुपात्तम् ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy