________________
अलङ्कारमणिहारे
यथावास्थालीबिलीयतण्डुलराशेरेवास्ति निष्फलीकरणम् । न तु सकलफलद भगवंस्त्वदीयपदविनतकाङितार्थानाम् ॥ १४६८ ॥
स्थालीबिलमर्हन्ति स्थालीबिलीयाः । पाकयोग्या इत्यर्थः । स्थालीबिलात्' इत्यहाथै छः । ये तडुण्लाः तेषां राशावेव निष्फलीकरणं फलीकरणस्याभावो निष्पलीकरणम् । निर्मक्षिकमितिवद. र्थाभावेऽव्ययीभावः । फलीकरणं नाम बीह्यादिधान्यस्य सूक्ष्मतुषः। अन्यत्र व्यर्थीकरणं नेत्यर्थः॥
यथावा
अखिलाघहतिनिदाने मम हृदि नारायणे समिन्धाने । दुरितमरितां भजेद्यदि भजतु दुतं स्यातदेव न मनो मे ॥ १४६९ ॥ · दुरितं मयि अरितां विद्वेषं भजेद्यदि भजतु मां कदर्थयितुमुद्युञ्जीत चेदुटुतामिति भावः। तदेव दुरितमेव दुतं स्यात् परितप्तं स्यात् 'टु दु उपतापे' इति सौवादिकाद्धातोः क्तः। मे मनस्तु न दुतं स्यात् । भगवतो हरेस्तत्रैव निवासादिति भावः । पक्षे दुरितं दुरितमिति पदं अरितां अविद्यमानरिवर्णतां भजेश्वेत् दुतमित्येव निष्पद्यतेत्यर्थश्च चमत्कुरुते ॥
यथावा
संसाराकृपारेऽपारे घोरेऽत्र विलठतरशौरे । मम नासि पारदस्त्वं चपलतया पारदोऽहमेवासम् ॥ १४७० ॥