________________
अलंकार मणिहारे
हे श्रीनाथ! बहिः अन्तश्च ज्वलता अद्भुततमेन मूषानिहित कनकरजः कणादिविलापनमात्रकारिणः प्रसिद्धादग्नेरापे वक्ष्यमाणराव किरणद्रवीकरणघनोभावोभय कल्पकतया विलक्षणेनेति भावः । तव तेजसा प्रतापेनैव अग्निना । मूबैव मूषिका तैजसद्रव्यविलापनी 'तैजसावर्तनी मूषा' इत्यमरः । तस्यां रवेः रुचिः जात्यभिप्रायकमेकवचनं, किरण इत्यर्थः । आवर्त्य विलाप्य कनकगिरिः अरचि । आवर्तिताः प्रभाकरकरा एव घनीभावनया सुमेरुत्वेन निष्पादिता इति भावः ॥
यथावा
326
ब्रह्माण्डान्तरसृष्ट्यै परितो जुलता तव प्रतापेन । जगदण्डमूषिकायामस्यामावर्त्यते सुवर्णगिरिः ।। १९६२ ॥
ब्रह्माण्डान्तरस्य ' तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ' इत्युक्तप्रकारस्यान्यस्य ब्रह्माण्डस्य सृष्टयै सृष्टिं कर्तुं ' क्रियार्थ ' इत्यादिना चतुर्थी । परितः समन्ततः ज्वलता तव प्रतापेन अस्यां विद्यमानायां जगदण्डमेव मूषिका तस्यां सुवर्णगिरिः हेमादिः आवर्त्यते विलाप्यते । ब्रह्माण्डमूषिकायां सुवर्णगिरिद्रवीकरणोक्तचा प्रतापे अग्नित्वं गम्यते ॥
यथावा
परतस्त्रिपाद्विभूतेः परितरस्फुरता ककुत्स्थकुलभानो । अत्यर्कानलदीप्तिर्नित्यं त्वद्योधतेजसाऽरचि सा ।। १९६३ ॥