________________
298
अलंकारमणिहारे
दयस्व वामे त्वया अवियुक्तः इति छेदः । प्रकृते प्रस्तुते समये हे प्रतीपदर्शिनि! हे वामे सुन्दरि! निजैः गुणैः वक्रि ममानादिभिः मा विमोहयास । किंचिंहयस्व । मा स्मैवं मोमुह इति भावः । त्वया अवियुक्तः अविश्लिष्टस्सन् । नित्यं अनारतं सुखं लभेय प्रामयाम् । पक्षे दयस्व वा मे त्वया वियुक्त इति छेदः । हे प्रकृते ! इति मूलप्रकृतेस्संबोधतम् । 'प्रधानं प्रकृतिः स्त्रियाम्' इत्यमरः । हे प्रतीपदर्शिनि! 'मदीयानादि कर्मप्रवाहप्रवृत्तां भगवत्स्वरूपतिरोधानकरी विपरीतमानजननी स्वविषयायाश्च भोग्यबुद्धेर्जननी' इति गदितप्रकारेण सर्व प्रतीपं प्रतिकूलं दर्शयतीति तथोक्ता। णिजन्तादृशेणिनिः । तस्यास्संबुद्धिः निजैः गुणैः सत्वादिभिः मां नित्यं विमोहयास विप. रीतदर्शिनं करोषि । मे मम 'दैवी गुणमयी मायां दासभूतश्शरणागतोऽस्मि तवास्मि दास इति वक्तारं मां तारय' इत्यु. क्तरीत्या त्वां शरणं गतस्येति भावः । वाशब्दो भिन्नक्रमः। किंचिद्वा दयस्व । परिपूर्णदयाकरणाभिप्रायाभावे किंचिदपि वा दयां कु/या इत्यर्थः। तावता को लाभ इत्यत आह-त्वयोति । त्वया वियुक्तः वियोग प्राप्तस्सन् । इदमेव तव दयाकार्य यथाऽहं मुच्येयेति भावः। ततश्च किं तवेत्यत आह-नित्येति । नित्यसुखं मुक्तानन्दं लभेयेति । अत्र तावत् ईर्ष्याकलुषितनायिकाप्रसादनव्यापारविधिः प्रतीयते । प्रकृतिगुणकलुषितस्य प्रकृति प्रत्याक्रोशो विवक्षितार्थः । स च सप्तम्यन्तस्य प्रकृते इति पदस्य प्रतीपदर्शिनीति संबुद्वयन्तपदान्तरसमभिन्याहारपूर्वकमुधारणेन संबुद्धयन्ततामवगमय्याविष्कृतः। कविनिबद्धवक्तगुप्तं परवञ्चनार्थ, कविगुप्तं तु स्वप्रौढिदर्शनार्थमिति भिदा ॥
इत्यलङ्कारमणिहार विवृतोक्तिसरो द्विनवतितम