SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 278 अलंकारमणिहारे वृक्षधूपोऽपि श्रीवेष्टसरळद्रवी' इत्यमरः । तृतीये श्रीवासः लक्षम्या अंशुकमित्यर्थः। एवंजातीयका अन्ये बहवः प्रदा बुद्धिमद्भिहनीयाः । अयं पद्यबहिर्वयुत्तररूपप्रथमप्रभेद उत्तराभिन्नोत्तररूपप्रभेद एव संभवति । न तु प्रश्नाभिन्नोत्तररूपप्रथमप्रभेदे, प्रश्नेनैवोत्तरस्यापि निबद्धतया पद्यादहिष्ठताया असंभवात् ॥ इत्यलंकारमणिहारे उत्तरसरषडशीतितमः. अथ चित्रप्रभालंकारसरः (८७) प्रश्नः प्रश्नान्तराभिन्नो यदिवाऽन्यार्थगर्भितः । निबध्यते तं,कतिचिञ्चित्रप्रभाख्यमचिरे ॥ प्रश्नस्य प्रश्नान्तराभिन्नत्वे वा अर्थान्तरगर्भत्वे वा चित्रप्रश्नाख्यमलंकार कतिचिदाहुः । अयं कौस्तुभकृदुपक्रमम् ॥ यथावा का कारुण्यनिधिर्ननु काकोदरशैलपतिहृदयवृत्तिः । शारदरविकरविकसितनीरजरुचिरा पदोयुगी चास्य ॥ १८७७ ॥ अत्र काकोदरशैलपतेः हृदयत्तिः चित्तत्तिरित्युत्तरस्य शारदेत्यायुत्तरस्य च काकारुण्यनिधिरिति प्रश्नान्तराभिन्न एकएव प्रश्नः । का कारुण्यनिधिः दयानिधिरिति प्राथमिक्यप्रश्नस्यार्थः । का का आरुण्यनिधिः शोणिमाश्रय इति द्वितीयस्य । काफेति प्रशंसायां वीप्सेत्यवोचाम कङ्कमिति पद्ये ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy