________________
276
अलंकारमणिहारे
यथावा
सिंहगिरिनाथवाहनरहसि कीदग्विभाति पवमानः । तद्दोर्दण्डविधूता वेपन्ते केऽभ्युदीर्यतामरयः ॥ १८७२ ॥
अत्रापि प्रश्नद्वयस्योत्तरं अरय इत्यभिन्नमेव । अरयः वेगहीन इति प्रथमस्योत्तरेऽर्थः । अरयः शत्रव इति द्वितीयस्येति ध्येयम् ॥ यथावा
श्रीवासस्याश्रयणाद्भवेयुरार्थिनोऽत्र कीहक्षाः । आर्तानां किं भविता ज्ञानी कीहक्ततो भवेद्विभवः ॥ १८७३ ॥
अत्र प्रश्नत्रयस्यापि विभव इत्येकमेवोत्तरमिति पूर्वेभ्यो विशेषः । अार्थिनः अपूर्वैश्वर्यकामाः विभवः प्रभवः भवेयुरिति प्रथमस्य प्रश्नस्योत्तरम् । आर्तानां भ्रष्टैश्वर्यकामानां विभवः ऐश्वर्य भवितेति द्वितीयस्य । शानी भगवन्तमेव परमप्राप्यं प्रापकं च मत्वा उपासीनः विभवः विगतसंसृतिर्भवतीति तृतीयस्येति बोध्यम् ॥
यथावा
हरियशसा का विशदाः कीदृश्यस्तत्तनुत्विषस्ताभिः। वृषशैलः कीहक्स्यात्कुतश्च निश्श्रेयस भवेद्धरितः ॥ १८७४ ॥ __अत्र प्रश्नचतुष्टयस्यापि हरित इत्येकमेवोत्तरमिति पूर्वस्माद्वैलक्षण्यम् । हरियशसा का विशदा इति प्रथमस्य प्रसस्य