________________
अतद्गुणसरः (८०)
255
भीभिस्सहाभिवृद्धाऽपि सैरिभी महिषी। जातिलक्षणो ङीष् । सौरभी सुरभिः गौः सुरधेनुर्वा ‘सुरभिर्गवि च स्त्रियाम्' इत्यमरः तस्या इयं सौरभी, अण्णन्तलक्षणो डोष् । तत्संबन्धिनी वत्सतरी तस्याः वृत्ति स्थितिं न भजति । वत्सतर्या एव वृत्ति न भजति किंपुनस्साक्षात्सुरभित्तिमिति भावः । पक्षे समानतया सौरभीशब्देन सह तुल्यतया वृद्धा वृद्धसंज्ञां प्राप्ताऽपि उभयोरप्यचामादेवृद्धत्वात् 'वृद्धिर्यस्याचामादिस्तवृद्धम्' इतिघनुशासनम् । सैरिभी सैरिभीति शब्दः । अर्थगतस्त्रीत्वस्य शब्दे आरोपः । सौरभीवृत्ति सौरभीशब्दस्य स्थितिं न भजति । उभयोरपि शब्दयोवृद्धत्वेऽपि तयोरन्योन्यं विजातीयत्वादिति भावः । किंच सैरिभीशब्दः सौरभीशब्दस्य वृत्तिं न भजति । सुरभरियं सौरभीति तद्धितवृत्तिमत्त्वात्तस्य, ‘स्वस्य च केवलरूढतया तादृशवृत्तिमत्त्वाभावादिति भावः । अत्र दृष्टान्तरूपो महावाक्यार्थः, बिम्बप्रतिबिम्बभावापन्नत्वात् । तत्र दार्टान्तिकवाक्यार्थः विधुप्रभृतिशब्दप्रतिपाद्यभगवञ्चन्द्रादिरूपार्थद्वयश्लेषभित्तिकाभेदाध्यवसायानुप्राणितातद्गुणालंकाररूप एव। दृष्टान्त. वाक्यार्थस्तु पूर्वोक्तरीत्याऽवशालंकाररूप इति पूर्वोदाहरणेभ्यो विच्छित्तिविशेषः ॥
अत्र गुणग्राहकापेक्षया सन्निहितस्य गुणवत उत्कृष्टत्वसमत्वाभ्यां द्वैविध्यमिति सर्वस्वकारः । तस्यायमाशयः-अपकृष्टसंबन्धिगुणाग्रहणस्य स्वाभाविकत्वेन वैचित्रयानाधायकत्वादन: लकारतैवेत्यपकृष्टत्वेन तृतीयः प्रकारस्तु न संभवतोति । अन्ये अवान्तरचमत्कारविशेषविरहात् द्वैविध्यमापि नेति वदन्ति । यद्यपि गुणवद्वस्तुसांनिध्यलक्षणकारणसद्भावेऽपि गुणानुदयस्यावशालं. कारातद्गुणयोस्मद्भावादिमौ विशेषोकितो नातिरिच्यते 'कार्या