SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ यथावा पर्यायालंकारसरः (५३) 15 देहात्मभ्रमवान् प्रागथ स्वतन्त्रात्मधीस्ततो भगवन् । त्वदितरशेष भ्रमवानधुना मन्ये त्वदेकशेषं माम् ॥ १४३४ ॥ स्वतन्त्रात्मधीः स्वतन्त्रात्मभ्रमवान् । त्वदन्येषां पित्रादीनां देवतान्तराणां वा शेष इति भ्रमवान् । अत्र देहात्मभ्रमस्वतन्त्रात्मभ्रमान्यशेषत्वभ्रमभगवदेकशेषत्वानामनेकेषामाधेयानां क्रमादेकस्मिन्नाधारे निबन्धनम् ॥ यथावा आदौ तमसा मलिनं गुरुकृपया विशदमथ च हरितत्वम् । अधिगम्य तत्र रक्तं हृद्वयं मम चित्रमेतदब्जाक्ष || १४३५ ॥ अत्रादौ मालिन्यं अज्ञानं नैल्यं च । अथ वैशद्यं ज्ञानप्रकाशः धावल्यं च । अनन्तरं हरितत्त्रप्राप्तिः भगवद्याथात्म्यानष्कर्षः, हरिद्वर्णत्वं च । अथ रक्तता भगवति प्रीतिः आरुण्यं चेत्येकस्मिन्नाधारे क्रमेणानेकाधेयवर्णनम् । चित्रं आश्चर्यमिदं शबलवर्णं चेत्यप्युपस्कार्यम् । पूर्वोदाहरणं शुद्धम् । इदं तु श्लेषसंकीर्ण तमसे त्यादिना उपात्तप्रयेाजकं चेति विशेषः ॥ --- यथावा हन्त परस्वस्तैन्यप्रवेशधीरो भवन्नरो भगवन् । दृष्टोऽवितस्वया चेत्परस्वसैन्यप्रवेशधीरस्स्यात् ॥ त्वया दृष्टः कटाक्षितः । अवितः रक्षितश्च । पक्षे वित इति छेदः । विगततकार इत्यर्थः । दृष्टश्वेति योजना | परस्वस्तै
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy