SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ रत्नावळीसरः (७७) 225 यथावा भूयांसमन्वयं त्वयि दधतं भवाविरोधपरिहृत्यै । शुभसाधनफललिप्सुश्चतुरध्यायी श्रये हरि कमले ॥१७८२ ॥ हे कमले ! त्वयि भूयांसं अन्वयं संबन्धं दधतं हरि शु. भाना साधनं यत्फलं निश्श्रेयसरूपं प्रयोजनं लिप्सुस्सन् अतएव भवेन संसारेण जन्मना वा भावी यो रोधः निर्बन्धः स्तय परिहत्यै शान्त्यै चतुरं निपुणं यथातथा ध्यायतीति चतुरध्यायी सन् श्रये । अत्र समन्वयाविरोधसाधनफलानां ब्रह्ममीमांसाचतुरध्यायीप्रतिपाद्यानां क्रमेण सूचनम् । चतुरध्यायीति सूच्यार्थसूचनान्मुद्रा च । तच्छिरस्का रत्नावलीयं पूर्ववदेव । किंच भूयांसमन्वयं त्वयि दधतं हरिमित्यनेन प्राप्यस्य ब्रह्मणस्स्वरूपं, श्रये इत्यनेन प्राप्तुः प्रत्यगात्मनस्स्वरूपं, चतुरध्यायीति प्राप्त्युपायः, शुभसाधनफलति फलस्वरूपं, भवभाविरोध इत्यनेन स्वरूपोपायफलप्रातिविरोधस्वरूपं च किंचित्क्रमवैपरीत्येन वर्णितमिति विशेषश्चात्र विभावनीयः ॥ सत्यं धर्म विन्दति स भीमसेनो रणे विजयशाली। व्रजति सुशोभनकलतां लक्ष्म्या सह देव सेवते यस्त्वाम् ॥ १७८३ ॥ अत्र श्लेषोपश्लिष्टमुद्रालङ्काररीत्या युधिष्ठिरादीनां पश्चानां पाण्डवानां प्रसिद्धक्रमेण प्रतिपादनमिति पूर्वोदाहरणेभ्यो विच्छित्तिविशेषः॥ ALANKARA-III, 29
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy