SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 184 अलङ्कारमाणिहारे यथावा अम्ब प्राक्त्वददृष्टेरमरकदम्बमपि विष्टपत्यक्तम् ! नष्टमधुना त्वनन्तोदयं तव दयादृशा विपत्यक्तम् ॥ १७१४ ॥ हे अम्ब! प्राक् पूर्व अमरकदम्बमपि किमुत मयंकदम्बमिति भावः । त्वददृष्टेः त्वत्कटाक्षालाभाद्धेतोः विष्टपेन त्यक्तं विष्टपं त्यक्तं येन तत्तथोक्तमिति । विसृष्टस्वस्वभुवनावस्थानमिति यावत् । नष्ट क्वाप्यदर्शनं प्राप्तं निलीनमित्यर्थः। अधुना तु तव दयादृशा विपत्त्यक्तं आपदा परित्यक्तम् । न केवलमनिष्टनिरास एव, किंत्वतिवेलमिष्टलाभश्चास्यत्याह-अनन्तोदयं अपरिच्छिन्नसर्वविधाभ्युदयं च भवति । अत्र त्वया देवि परित्यक्तं सकलं भुवनत्रयम् । विनष्टप्रायमभवत्त्वयेदानी समेधितम् ॥ इति श्रीविष्णुपुराणानुसारिणा 'ईषत्त्वत्करुणानिरीक्षणसुधासंधुक्षणाद्रक्ष्यते नष्टं प्राक्तदलाभतस्त्रिभुवन संप्रत्यनन्तोदयम्' इति श्रीयामुनार्यश्रीसूक्तिरनुसंहिता ॥ पक्षे विष्टपत्यक्तमिति पदं नष्टं न विद्यते ष्ट इति वर्णः यस्य तत् नशब्द पूर्वको बहुव्रीहिः । भ्रष्टष्टवर्ण सत् विपत्यकं विपत्यतामिति पदं अनन्तात् शेषावतारात्पतञ्जलेः उदयः आविर्भावो यस्य तत्तथोक्तं भवति । सर्वेषामपि शब्दानां तन्निष्पादितत्वादिति भावः । अत्र श्रीकटाक्षमहिमगुणेन तदविषयस्यामरकदम्बस्य विष्टपत्यागादिदोष इत्येक उल्लासः, तत्कटाक्षमहिमगुणेन तद्विषयस्य तस्य विपत्तिपरित्यागादिगुण इत्यन्य उल्लासः पूर्ववदेव ।
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy