SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 178 अलङ्कारमणिहारे ausarस्वमिति हरे चण्डकरादिस्स्वकृत्यमधिकुर्वन् । भद्राय भवति जगतां निद्रात्यल से प्रभौ जनस्स्वैरम् || १७०५ ।। प्रभौ अलसे सति जनः स्वैरं निद्रातीति योजना । अत्र भगवतो दण्डधरत्वसुचित क्रौर्यदोषेण चण्डकरादेः स्वस्वाधिकारनिवर्तनमूलक जगत्क्षेमनिष्पादनलक्षणगुणाधानम् । अयं च व्यतिरेकमुखप्रवृत्तेन तुरीयपादगतार्थान्तरन्यासेन समर्थितः । अत्र भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः' इत्यादि श्रुत्यर्थोऽनुसंधेयः । इदं भगवतो दण्डधरत्वं क्रौर्यमिति लोकदृष्ट्योक्तम् । वस्तुतस्तु तस्यापि गुणत्वमेवेत्यभाषि भगवद्भाष्यकारैः । एवं सत्यन्यगुणेनान्यगुणाधानस्यैवोदाहरणं भविष्यति ॥ यथावा चक्रेण व्यलनास्त्वं चैद्यस्य शिरोधरां सरो. जाक्ष । किं छिन्नमस्य तावत्त्वत्सायुज्यं परं त्वनेनाप्तम् || १७०६ ॥ अत्र भगवतश्चक्रस्य चैद्यस्य शिरोधराच्छेदहेतुभूत क्रौर्यदोषेण तस्य तत्सायुज्यलाभ रूपगुणाधानम् । इदं शुद्धम् ॥ यथावा त्वदनुग्रहस्य विषयश्शरीरभृद्धरणिभास्वरः प्रभवत् । त्वन्निग्रहस्य विषयो निस्स्वोऽच्युत. घरणिभार एव भवेत् ॥ १७०७ ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy