________________
ललितसर : (६८)
रटाभ्यामभेदो न किंतु भेद एवेत्यर्थः । अत्र भगवद्भजनहीनश्रुति स्मृतिपठनं निरर्थकमिति वर्ण्यमनुक्त्वा तत्प्रतिबिम्बमेव निबद्धम् ।
157
यथावा
केऽपि भजन्ते त्वदितरमितरे त्वामेव देव सेवन्ते । काका काका एव धरितशिरसोऽपि किं नु हंसास्स्युः || १६७५ ॥
काकाः वायसाः अधरितशिरसोऽपि । पक्षे काका इति शब्द: विपरीतोऽपीत्यर्थः । अत्र देवतान्तरं भजतां महतापि प्रयासेन भगवद्भक्तजनसाधर्म्य न घटत इति विषयवाक्यार्थमप्रदर्श्य तत्प्रतिबिम्बवाक्यार्थ एव वर्णितः चमत्कारान्तरं तूदाहरणद्वयेऽपि व्यक्तमेव ॥
न चात्र सर्वत्रापि भेदेऽप्यभेद इत्यतिशयोक्त्या चारितार्थयमिति वाच्यम् । तत्र हि पदार्थेन पदार्थस्यैवाभेदाध्यवसानम् ' कनकलतायां विराजते चन्द्र: ' इत्यादी दृष्टम्, न तु व्यवहारेण व्यवहारस्येत्यविषय एवायमतिशयोक्तेः । नापि सादृश्यमूलया अप्रस्तुतप्रशंसया, धर्म्यंशे प्रस्तुतत्वविरहात् । नापि निदर्शनया, एकधर्मिगतव्ययहारद्वयोपादान एव तस्या इष्टेः । प्रकृते च प्रकृतव्यवहारस्यानुगात्तत्वाद्लेकारान्तरमेव । एवंच
क्क सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुदुस्तरं मोहादुडुपेनास्मि सागरम् ॥
(
इत्यत्र काव्यप्रकाशिकाकारो यन्निदर्शनामुदाहार्षीत् तदसंगतमेत्र, ललितस्यावश्याभ्युपगम्यत्वात् । निदर्शनाया अप्राप्तेश्च । तदेवं ललितस्यालंकारान्तरत्वमुररीकुर्वतामाशयः ॥
J