SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ मिथ्याध्ववासतिसरः (६७) 153 यथावा अतसी परिभूता तव रुच्या तप्त्वा वनेष्वधइशीर्षम् । अन्ते संधेस्सीता स्याञ्चेत्त्वद्रुचिमियाद्रघुकुलेन्दो ॥ १६६८ ॥ हे रघुकुलेन्दो ! इदं विवक्षितार्थोपस्काराय । अतसी क्षुमाकुसुमं 'पुष्पमूलेषु बहुळम्' इति लुक् । तव रुच्या त्विषा परिभूता सती वनेषु अधश्शीर्ष तप्त्वा । पक्षे वैपरीत्येन स्थित्वेत्यर्थः । अन्ते पर्यवसाने संधेः बलवद्विरोधोऽनुचित इति संधि कृत्वेत्यर्थः । पक्षे संहितात्वविवक्षाया इति यावत् । सीता स्याञ्चेत् जानकीत्वं प्राप्ताचेत् त्वद्रुाचं तव द्युति त्वय्यनुरागं च इयात्, अन्यथा तस्यास्त्वचिन सुलभेति भावः । पक्षे अतसीशब्दव्यक्तिः वैपरीत्येनावस्थिताचेत् सीत अ इति स्यात्, ततस्तकाराकारयोस्सवर्णदीर्घरूपस्संधिश्चेत् सीता इति निष्पद्यत । स एव दुर्घटः ‘अतो गुणे' इति पररूपलक्षणैकादेशे सवर्णदीर्घाप्रवृत्तेः । तथाच सोत इत्यदन्त एवायं शब्दो भवेत् । न तु सीतेति दीर्घान्त इति भावः। अत्रातस्याः श्रीरघुनन्दनरुचिप्राप्तेरतिवेलासंभावितस्य निर्वृत्त्यर्थं तस्यास्सीतात्वप्राप्तिरूपातिवेलासंभावितत्वकल्पनम् । श्लेषचमत्कारान्तरादिकं व्यक्तमेव ॥ यथावा अष्टमजलधौ जनितष्षष्ठो निर्जरतवषाद्रिमणे। त्वत्तोऽपि वदान्य इति स्रष्टा षष्ठेन वदति वदनेन ॥ १६६९ ॥ ALANKARA_III.
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy