SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 148 अलंकारमणिहारे त्वच्छरकृतविदारणेन विकृतः स्यात् सत्यं नात्र संशयः। तत्र हेतुमाह हि यस्मात् त्वं दलितं तस्य शंभोः धनुः धन्व वा येन स तथोक्तः। तस्मात् त्वया कृतमहारणोऽपि महादेवो देहविदारणेन विकृतस्स्यादेवेति भावः । पक्षे देहभिदया देकारस्य हकारेण भेदनेन विकृतस्स्यात् । महादेवशब्दः महाहवशब्दत. या विकृतस्स्यादित्यर्थः । अत्र महादेवस्य रघुवीरविषयकमहाहव. त्वसंभावनं तदेहावेदळनप्रयोज्यविकारवत्त्वसंभावनसाधनं हेतूपष्टम्भेन निवद्धम् ॥ यथावा -- भगवन्मुकुरः कुसृतेस्स्यान्चेत्वद्गण्डमण्डलजि. गीषुः । शकलीभवेत्स नूनं त्वं मुरदलन इति स किल नाज्ञासीत् ।। १६६२ ॥ हे भगवन् ! मुकुरः कुसृतेः शाठ्यात् कुत्सिता सृतिः कुसृतिः कुमार्गः 'कुसृतिनिकृतिश्शाठ्यम्' इात कपटपर्यायेष्वमरः । पक्षे कु इति वर्णस्य सृतेः अपसरणात् ‘सृ गतौ' इत्यस्माद्धातोः तिन् । मुकुरो मुर इति निष्पन्न इति भावः । शब्दार्थयोस्तादात्म्यम् । त्वद्गण्डमण्डलजिगीषुस्स्याच्चेत् शकलाभवेत्। नूनं नात्र संदेग्धव्यमिति भावः । अथैवं मुरत्वं प्राप्तोऽपि मुकुरः मुरभिदस्तव विजिगीषायां कथं प्रवृत्त इत्यत आह-त्वमिति । सः मुकुरः त्वं मुरदलन इति नाशासीकिल । नाजानादिति संभावये इति भावः॥ यथावाअविकुलमप्यविकलमिह मुख्येनाशेषपालकेन
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy