SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 120 अलंकारमाणिहारे हे भगवन् ! विकचं व्याकाचं सिताम्बुजं पुण्डरीकं उद्भटः गन्धः यस्य तत्तथोक्तं अतिसौन्दर्यगर्वितमित्यर्थः । अतिसौरभशालीति तु तत्त्वम् । अथ त्वन्नयनजितं अत एव अपचितं अपचयं प्राप्तं त्वन्नयनजितं अथ अपचितमिति वा योजना | पक्षे विकचसिताम्बुजामति पदं अपचितं अपगतचकारं कृतं सत् विकसिताम्बुजं भवदिति भावः । तव सर्वदास्यलक्ष्मी सर्वविधकैकयश्रियं, पक्षे सर्वदा आस्यलक्ष्मी मुखशोभां अलभत । तथाहि, सूनस्य सुष्ठु ऊनस्य वैरशुद्धचौपायकशौर्यधैर्यादिभिस्सर्वथाऽपि हीनस्य प्रसूनस्येति तु तत्त्वम् । गतिः स्थितिः इयती एतावती । यत्प्रताकाराक्षमतया स्वजैवोपसर्पणमिति भावः । अय. मपि सामान्येन विशेषस्य समर्थनरूप एव ॥ त्वत्सौकुमार्यविजितं मत्वा निजसौकुमार्यमखिलाम्ब।नवनीतमनस्थितिमदनीतमासीन्मदोर्हि गतिरियती ॥ १६११ ॥ . नवनीतं अनस्थितिमत् अनसि शकटे स्थितिमत् ‘शपरे खरि वा विसर्गलोपः' इति विसर्गलोपे स्थितीत्यत्रैकसकारकमेव रूपमर्थान्तरे शब्दावैरूप्यायेति ध्येयम् । देशान्तरप्रस्थानाय शकटमारूढमिति भावः । वनतिं वनीं गतं अथवा वनी इता प्राप्ता येनेति बहुव्रीहिः । अरण्यांनी प्रविष्टमित्यर्थः । पक्षे नवनीतमिति पदं नस्य नकारस्य स्थितिः साऽस्यास्तीति नस्थितिमत् तन्न भवतीत्यनस्थितिमत् नकारविघटीतं वनीतमा. सीदित्यर्थः। तथाहि, मृदोः कोमलस्य अतीञ्जस्य च गतिः ईदृक् । अन्यत्सर्व पूर्ववत् ॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy