SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ सारालङ्कारसरः (५१) ___ अत्रैकस्यैव भगवत्प्रतापस्य उज्ज्वलितत्वरूपधर्मपुरस्कारेणोत्तरोत्तरोत्कर्षः॥ .यथावा: अङ्कुरिता पल्लविता कोरकिता कुसुमिता च मम भक्तिः। क्रमतस्त्वयि मधुसूदन महती भूत्वा प्रसौति फलमनघम् ॥ १४१२॥ अत्रैकस्या एव भक्तेः महत्त्वधर्मपुरस्कारेणोत्तरोत्तरोत्कर्षों निबद्धः॥ यद्यत्रैकस्मिन्नाश्रये क्रमेणानेकाधेयस्थितिरूपः पर्यायालङ्कारोऽत्र प्रतीयते, तार्ह प्रतीयतां नाम । न हि तावता पूर्वपूर्वा-. पेक्षया उत्तरोत्तरोत्कर्षरूपस्सारो गळहस्त्यते ॥ अनेकविषयस्स्वरूपेणोत्कर्षों यथारजताचलमूर्धनि यस्तन्मूर्धनि याऽस्ति साऽपि यत्पदजा । सोऽपिच यत्पदलाक्षालक्षितवक्षा ज. यत्यसौ लक्ष्मीः ॥१४१३॥ अत्रानेकेषां स्वरूपेण पूर्वपूर्वापेक्षया उत्तरोत्तरमुत्कर्षः॥ धर्मेण यथा प्राणिष मनुजारश्रेष्ठा मनुजेषु ब्राह्मणा बुधास्तेषु । त्वचक्रलाञ्छितास्तेष्वच्युत तेषु त्वदतिदत्ताराः ॥१४१४॥
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy