________________
102
अलङ्कारमणिहारे
अत्र कनकगिरेभर्गवत्किरीटसादृश्याभावे यज्जगदीशो बिभर्ति शिरसेवेति वाक्यार्थः सकलसुरैरप्यधः कृतेनेति पदार्थश्चेत्युभयं संभूय हेतुतामञ्जते । ननु सकल सुरैरप्यधः कृतेनेति पदार्थः कनक. गिरिनिष्ठत्वेन तन्निष्ठे भगवत्किरीटसादृश्याभावे हेतुभावं भजतां, यज्जगदीशो बिभर्तीति वाक्यार्थस्तु तदवृत्तितया कथं नाम तत्र हेतुभवितुमर्हतीतिचेत् साध्यकिरीटसादृश्याभावानुप्रविष्टकिरीटगततयो पनिबध्यमानो वाक्यार्थस्तथाविधकिरीटघटितसाम्याभावप्रायोजकतया हेतुरित्युभयं संभूय हेतुतां भजत इति गृहाण ॥
यथावा
निर्विद्येऽहमविद्ये विद्येत मया न ते सुखलवोऽपि । विजहीहि मामकिंचनमकिंचनजनाश्रयं श्रितं कंचित् ।। १५८४ ॥
निर्विद्ये निर्विण्णोऽस्मि । अकिंचनजनानां दरिद्राणां उपायान्तरविधुराणां च आश्रयं कंचित्पुरुषं भगवन्तमिति वस्तुस्थितिः अत्राविद्यायाः स्वपरित्यागे पूर्वार्धवाक्यार्थः, अकिंचनजनेत्यादिपदार्थश्चेत्युभयं हेतुः । वाक्यार्थपदार्थयोस्सापेक्षताविरहेऽपि हेतुत्वमिति पूर्वस्माद्विशेषः । समासोक्तिसंकीर्ण चेदमित्यपरोऽपि विशेषः ॥
यथावा
वितरति बहुप्रसादो विपुलां विनताय संपदं भगवान् । ननु कथमिव नित्यश्रीरसान्वितोऽयं बहुप्रदो न स्यात् ।। १५८५ ।।