SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्रीः . . अलङ्कारमणिहारे तृतीयभागप्रारम्भः. अथ सारालङ्कारसरः (५१) सैवोत्तरोत्तरोत्कर्षे सार इत्युच्यते बुधैः ॥ सैच शृङ्खला पूर्वपूर्वापेक्षया उत्तरोत्तरमुत्कर्षवर्णने सारालङ्कार इत्युच्यते । अयमेवोदारालङ्कार इति सर्वस्वकृता व्यवह्रियते । तथाच तदीयं लक्षणं- “उत्तरोत्तरमुत्कर्षणमुदारः" इति । इमं चालङ्कारमेकानेकविषयत्वेन द्विविधमामनन्ति । एकविषयतायामवस्थाभेदाश्रयणमावश्यकं, उत्कर्षस्य भेदनियतत्वात्। न ह्यवस्थादिकं भेदं विना किंचिदपि वस्तु स्यापेक्षया स्वयमधिकं भवितुमीष्टे । तत्राप्युत्तरोत्तरमुत्कर्षः स्वरूपेण धर्मेण वा भवतीत्यस्य चातुर्विध्यमिति विमर्शनीकारः॥ . तत्र एकविषये स्वरूपेणोत्तरोत्तरोत्कर्षों यथा सोऽव्यात्तिविक्रमोऽस्मान्यस्योडुततिः क्रमेण वृद्धि भजतः। आदौ वजवतंसो मुक्ताहारस्ततोऽथ मणिकाञ्चयासीत् ।। १४०७॥ .. अत्र एकस्यैव भगवतस्तत्तदवस्थाविशिष्टतया स्वरूपेणोत्तरोत्तरमुत्कर्षः॥ ALANKARA -~-III.
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy