________________
४१
Patanjali
हितोयकिरणः। नयेति श्रुते 'गङ्गा'शब्द एव लाक्षणिको न 'घोष'शब्द इति निश्चिन्वन्, 'घोषः प्रतिवसति, तमानये'तुरत नान्वयवाधः, तेन वाक्ये न लक्षणा, अपि तु 'गङ्गा'शब्द एवेति व्युत्पद्यते। इयन्तु लक्षणा जहत्स्वार्थापि स्वसम्बन्धमावेण स्वाविनाभावप्रतिपादयित्री। 'कुन्ताः प्रविशन्ती' त्यादावजहत्वार्था, कुन्तधारिलेन कुन्तसहितप्रवेशात् ।
'शोणो धावती'त्यत्र न लक्षणा, 'क्वचित् गुणवचनान्मतुपो Varttika. लुगिष्ट' इति लुप्तेनापि मतुपा मुख्यार्थ एवाभिधीयते । 'कृत्रिणो गच्छन्तो'ति समूहाथै लक्षणा, सर्वेषां छत्रिवेनान्वयाभावात् । ____ 'रथो गच्छतो'त्यत्र जहदजहत्वार्थी, स्वाकर्षकगमनेन शक्यसम्बन्धात्
खककगमनाभावादंशतो जहत्वार्था गमनांशेनाजहत्वार्था। केचिकुर्चत्यपौत्यर्थः। शक्यसम्बन्धरूपलक्षणाघटकीभूतखसम्बन्धमात्रेण यः खस्याविनाभावो याप्ति: गङ्गासम्बन्धज्ञानस्यावश्यकतारूपा तस्य सम्यादयित्री ।
कुन्तोऽस्त्र विशेषः, तहिशिरपुरुषप्रवेशतात्पर्यस्थले केवलपुरुषे 'कुन्त'पदस्य न लक्षणा, किन्तु कुन्तविशिरपुरुष एव । शोयो रक्तगुणविशियो धावतीत्यत्र गुणवाचकस्य 'शोणशब्दस्य शोणगुणविशिष्ट लक्षणेति सर्वत्र प्रसिद्धिः। कस्यचिन्मते लक्षणां विनेष 'गुणवचनान्मतुपो लुगि'त्यनुशासनेन शोणशब्दोत्तर-मतुपो लोपान्मुख्य एवार्थः। ननु छत्रसहितानां छत्ररहितानाच्चानेकपुरुषाणां गमनस्थलले ‘छत्रिणो गच्छन्ती'ति प्रयोगश्छन-- रहितछत्रसहितपुरुषममूहे लाक्षणिक इत्याह-सर्वेषामिति। छवरहिताना छतसहितानाच सर्वेषां छवित्वेनान्वयाभावान्मुख्यस्यार्थस्य वाधः, अतोऽत्र छताछत्तुभयन 'छनि'पदस्य लक्षणा। तेनावाप्यनहत्वार्था लक्षणा वोडया।
ननु 'रथो गच्छतो'त्यादौ गमनानुकूलयनवत्वरूपस्य गमन कत्तु त्वस्य रथचेतनत्वेन वाधितत्वात् कथ शाब्दवोधः? न च 'रथ' पदस्य रथप्रेरकपुरधे लक्षणा खोकतया - तथा सति पुरुषस्य सचेतनत्वेन तस्मिन् गमनकत्तत्वन वाधितमिति वाच्यं, केवलं 'परुधो मतौ'त्यनुक्का रथस्य गमनतात्पर्यण 'रथो गच्छतौति वक्तुः पुरुषस्य विवचितार्थस्य रथनिष्ठवोधितगमनस्यासिहः। तस्मादेव वाच्यं-यथा 'रथ'पदस्य पुरधे लक्षणा तथा गमधातोरपि रथनिष्ठगमनविशेष लक्षणा विवक्षणीया। तथाच रथनिष्ठगमनानुकूल-- यत्नवान् पुरुष इत्याकारकः शाब्दवोधः सिद्धः। एवं सति लक्षणया रथवृत्तित्वावच्छिन्न गमनत्वरूपधर्मविशेषस्य शाब्दवोधे भाणे सति गमधातोः शक्यतावच्छेदकस्य निरवच्छिागमनत्वजातिरूपस्वार्थस्य तादृशशाब्दवोधेऽभाणेन नहत्वार्था। एवं गमधात्वर्थस्य गमनविशेषस्य भाणे नाजहत्वार्था च। तस्मादकैव लक्षणा नादबाहतखार्था भवतीति