________________
अलङ्कारकौस्तुभः ।
३४८
धर्महीनता यथा—
स पीतवासाः शिखिपिच्छ मौलिर्विलोलहारो हरिरुचकाशे | तड़िल्लताशक्रशरासनाभ्यां विभूषितो नव्य इवाम्बुवाहः ॥ २१५ अत्र 'विलोलहार' इत्यस्य बलाकारूपधर्महीनता । तेन विभूष्यमाणः क्षणरोचिरिन्द्रधनुर्बलाकाभिरिवाम्बुवाहः ॥ धर्माधिक्यं यथा - चामीकराभं वसनं वसानः शिखण्डचूड़ो हरिराबभासे । विभूष्यमाणः चणरोचिरिन्द्रधनुर्बला का भिरिवाम्बुवाहः ॥ २१६
अस्त्र बलाकारूपधर्माधिक्यम् ।
सारूपेत्र लिङ्गभेदस्तु न दोषो न च वा गुण: (म) || ३२६का –
सारूप्य भिन्नलिङ्गत्वेऽप्येकाकारत्वम् ।
यथा- महारत्नरिव गुणैः कृष्णरत्नाकरो भवान् ।
तवामृतमिव खादु व्याहारं वेद्मि राधिके ॥ २१७ उत्प्रेक्षायां 'यथा' शब्दः (म)—३२७का-
दुष्ट इत्यर्थः। ‘यथा' शब्दस्य केवलं साधर्म्यमात्रपय्र्यवसायित्वादवाचकत्वमुत्प्रेक्षायाः । तस्यास्तु ‘नूनं'' मन्ये' 'ध्रुव' मित्यादयो वाचकाः । उदाहरणम्— चिते द्रवति तोयेन पूयते नयनद्दयम् ।
प्रिययोश्चित्तनयने संवादचतुरे यथा ॥ २१८
- 'चामीकरेति - चामीकराभं सुवर्णमयम्, चणरोतिर्विद्युत्, बलाका बकपङ्क्तिः,अनोपमेये श्रीकृष्णळे 'विलोलद्दार' पदाभावादुपमायां बलाकारूपधर्मस्य सत्त्वाच्च धर्माधिकां कूयम् ।
महारत्ने रिति — ग्रत्र 'रत्न' शव्दो नपुंसकलिङ्गः गुणशब्दस्तु पुंलिङ्गः तथाऽपि तृतीयायां पुंनपुंसकयोरेकरूपत्वात् 'रत्न' गुणैरित्येकाकारत्वम् । एवं द्वितीयायाम् 'ग्रम्टतं' 'व्याहारमित्येकाकारत्वम् । चित्त इति - तथाच यथा प्रत्यापन्नयोः संवादचतुरयोर्दयो मध्ये
रखादिरिति मे मति'रिति ध्वनिकृता सूचितम् । राजा तु एवंविधस्थले यत् रसालङ्कारत्व. स्थितिररीचकार तत्तु तत्ग्रन्थे रसालङ्कारयोरितरेतराश्रयतापचमुपालव, नव्यानामरुचिकरमेतदेति बहुशोऽस्माभिरसूचि, तस्यातितरां दूषणाक्रान्तत्वादतिविवाद पदारू वाच्च । अन मूले ‘रसपोषिका' इति विशेषयोपादानमनर्थकं सर्वासामलङ्कृतीनामेव तत्त्व न सम्भवात् स्वरूपकलनाभावोज्जम्भितमेतदित्येवास्तां साधु साधनम् ।