SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकौस्तुभः । चित्रे चिन्त्यं कथमपि चिरं धाम यच्छयामलन्ते गोपस्त्रीणां कुचकलसयोनलरत्न' बभूव (द) ॥ १४७ अत्र "आत्मारामै ” रित्यस्य विशेषणस्य सर्वान्येव विशेषणानि साकूतानि । प्रक्कतस्थगनं छद्म (४०) व्याजोक्तिर निषेधभाक् (ध) || २१२ का - पतिस्तु निषेधपूर्वा, इयन्तु न तथेत्यनिषेधभागित्युक्तम् । इयन्तु च्छद्मपूव । यथा - अहो शैत्यस्य महिमा हिमानिल ! तवेदृशः । न शक्यते गोपायितुं कृतो येनाधरव्रणः ॥ १४८ ३३८ A यथा वा अलमलमभिलापेणामुना वारिखेला कुतुकिनि ! कमलानामाहृते कौतुकस्य । कलय कलितमङ्गं कण्टकैर्नाललग्ने: शिवशिव ! परिदष्टं षट्पदेनाधरोष्ठम् ॥१४८ प्रश्नपूर्वकमाख्यानं तत्सामान्यत्यपोहनम् । तस्य तस्यापि च ज्ञेये व्यङ्ग्यत्वे स्यादथापरम् । अप्रश्नपूर्वकं वाच्यं परिसंख्या ( ४१ ) चतुर्विधा (ध) ॥ २१३ का 'तस्य तस्य' चेति प्रश्न पूर्वाख्यानस्य तत्सामान्यव्यपोहनस्य च व्यङ्गात्वम्, अप्रवपूर्वकस्य तत् सामान्यव्यपोहनस्य च वाच्यत्वञ्चति चतुर्द्धा । क्रमेगोदाहरणानि— सुरताङ्कं गोपायितुं श्यामलाऽह - हे शीतकालीन हिमानिल ! तव शैत्यस्येदृशो महिमा कियदक्तव्यः ? व्यत्र हिमपवनस्य सर्वेषामधर वणजनकत्वेने दुःखदायित्वादमाहात्मारूपप्रकृतार्थस्य संवरणं तत्त मिघमात्रं किन्तु दुःखदायित्वादमाहात्मा एव वक्तुस्तात्पर्यम् । श्रराधिका काञ्चित् खसखीं स्तनाधरादौ सम्भोगचित्र दृष्ट्वा परिहसन्त्याह-- अलमल - मिति - तथा च त्वया कुञ्ज मध्ये जलक्रीड़ायामेव गतम्, तत्र जलमध्य स्थितानां कमलानामाहरणार्थे गतायास्तवाङ्गस्य कमलनालस्य कण्टकैः करणैः चतादिकं जातम् । व्यत प्रकृतार्थस्य श्रीकृष्णेन सह सम्भोगस्य संवरणमात्रम्, किन्तु तात्पर्यं तत्त्रैवेति भावः । लङ्कारभेद इति चन्द्रालोककृदाद्याः । व्यात्मारामैरिति–“आत्मारामा विद्दितरतय' इत्यादि वेणीसंहारपद्यमेतदभिप्रायमेव । (ध) व्याजोक्तिरिति - इयं प्राचीनानां ग्रन्थेषु लयो लेशो वेति निर्दिष्टः । रसगङ्गाधरकृत लेशस्तु गुणस्यानिष्टसाधनतया दोषत्वेन दोषस्येष्टसाधनतया गुणत्वेन वने जङ्घटौतीति भिन्न एव । यत्न तत्त्वतो गोपन एव तात्पर्यं तदुत्यच्च वैचित्रमितीतरालङ्कारव्यावर्त्तकता । परिसंख्येति–‘परि' शब्दोऽत्र वर्जने, 'परेवर्जने' इत्यष्टाध्यायीकृतां निर्देशात् । संख्या बुद्धिः
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy