________________
११. एकादश विश्राम
[ ३२३
पंक्तिस्थकोष्ठान्-तृतीयपंक्तिस्थितकोष्ठान् पूर्णान् कुर्यात् । अतश्चात्रकचतुर्नवविंशति-चत्वारिंशदष्टसप्तत्यादिभिरङ्कः १, ४, ६, २०, ४०, ७८ तृतीय पंक्तिस्थितकोष्ठान् पूरितान् कुर्यादित्यर्थः । अत्र नेत्रसंख्या रौद्रीति विज्ञातव्या । पाठान्तरे-अग्निपर्यायत्वात् स एवाऽर्थः । एवमन्यत्रापि । शालिनीछन्दसि ।।७७।।
एवमङ्कविन्यासे कृते सति तृतीया मात्रापंक्तिः सिद्धयति ॥३॥
अथ क्रमप्राप्तां चतुर्थी वर्णपंक्तिमुल्लंघ्य चतुर्थ-षष्ठपंक्तयो युगपदेव साधनार्थं तन्मूलभूतां प्रथमं तावत् पञ्चमपंक्ति साधयति
प्रथमे इति । तत्र षट्स्वपि प्रथमपंक्तिषु प्रथमकोष्ठस्य त्यक्तत्वात्, द्वितीयकोष्ठकमेवात्र प्रथमं कोष्ठकम् । अतः तस्मिन् प्रथमे कोष्ठके द्वितीयमकं, तदपेक्षायाः द्वितीयकोष्ठके च पञ्चमाकं च दत्त्वा, ततो बाणद्विगुणं-पञ्चद्विगुणं दश १०, तद्विगुणं-दशद्विगुणं विंशतिश्च २०, तो-द्वावको नेत्रतर्ययोः तदपेक्षयैव तृतीयचतुर्थयोः कोष्ठकयोः दद्यात्-विन्यसेदित्यर्थः ।।७।। ___ तथा चात्र पञ्चमपंक्तो प्रथमकोष्ठं विहाय द्वि-पञ्च-दश-विंशतिभिरकैः २, ५, १०, २० कोष्ठचतुष्टयं पूरयित्वा अग्रिमैतत्पञ्चमकोष्ठपूरणार्थं उपायान्तरमाह
एकीकृत्येति । तथा च-इति आनन्तर्यार्थे । ततः पञ्चमपंक्तिस्थितान् पूर्वान् पूर्वाङ्कान्-द्वयादीन् चतुष्कोष्ठस्थान् एकीकृत्य-मेलयित्वा, तथा ततोऽपीत्यर्थः । तस्मिन्नेकीकृताङ्के एकमधिकं दत्त्वा निष्पन्ने एतेनाङ्केन अष्टत्रिंशता ३८ अङ्केनैव पञ्चमं पूर्वापेक्षायां पञ्चमं कोष्ठकं पूर्ण कुर्यात् ।।७।।
अत्रत्यं षष्ठकोष्ठपूरणोपायमाह--
त्यक्त्वेति । विद्वान्-अङ्कमेलनकुशलो गणकः पूर्वाङ्कान्-द्वितीयादीन् एकभावमापाद्य-एकीकृत्य संयोज्येति यावत् । ततः पिण्डीकृतेषु एतेषु अङ्केषु पञ्चमाकं प्रथमाङ्कवत् त्यक्त्वा । तथा पुनरित्यर्थः । एकमङ्कमधिकं दत्त्वा पूर्ववज्जातेन तेन एकसप्तत्या ७१ षष्ठं कोष्ठं प्रपूरयेदिति ।।८।।
अथ तथैवात्रस्थसप्तमकोष्ठपूरणोपायमाह
कत्वेति । पञ्चमपंक्तिस्थितानां द्वयादीनां एकसप्तत्यन्तानां षण्णामङ्कानामैक्यं-पिण्डीभावं कृत्वा तेषु पूर्ववत् पञ्चदशाङ्कं त्यक्त्वा । ततस्तेष्वपि चैक हित्वा मुनेः कोष्ठं-सप्तमं कोष्ठं त्रिंशदधिकेन शताङ्कन १३० पूरयेत् । इति सप्तमकोष्ठकपूरणप्रकारः ॥ १॥