________________
५. पञ्चम विश्राम
[ ३०३
एवमनया प्रणालिकया सुधीभिः षड्विंशत्यक्षरप्रस्तारपर्यन्तं अङ्कसञ्चारप्रकारः समुन्नेयः ।
किञ्चात्र तत्तत्पङ्क्तिकोष्ठगततत्तद्वर्णप्रस्तारपिण्डसंख्यापि तत्तत्पङ्क्तिस्थिताङ्क: समुल्लसतीति वर्णमेरुरयं मेरुरिवादिभागसंकुचितान्तविस्ताररूपो विभातीति श्रीगुरुमुखादवगतो वर्णमेरुलिखनक्रमप्रकारः प्रकाशित इति शिवम् ।
श्रीलक्ष्मीनाथभट्टन रायभट्टात्मजन्मना ।
कृतो मेरुरयं वर्णप्रस्तारस्यातिसुन्दरः ।। अस्य स्वरूपमुदाहरणमत्र द्रष्टव्यम् ।
वर्णमेरुर्यथा तृतीयः
नववर्णमेरुरयम् । एवं अग्रेपि समुन्नेयः सुधीभिः । इति श्रीमन्नन्दनन्दनचरणारविन्दमकरन्दास्वादमोदमानमानसचञ्चरीकालङ्कारिकचक्रचूडामणि-साहित्यार्णवकर्णधार-छन्दःशास्त्रपरमाचार्य-श्रीलक्ष्मीनाथभट्टारकविरचिते श्रीवृत्तमौक्तिकवात्तिकदुष्करोद्धारे एकाक्षराद् षविशत्यक्षरावधिवर्णप्रस्तारमेस्वारो नाम
पञ्चमो विधामः ॥५॥