SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ५० ६६-१०६ ] १२. अनुक्रमणी - प्रकरण [ २८३ लोलाचन्द्रस्ततश्च स्यान्मजीरा चर्चरी ततः । क्रीडाचन्द्रस्ततश्च स्यात् ततः कुसुमिताल्लता ॥ ६६ ॥ ततस्तु नन्दनं वृत्तं नाराच: स्यादनन्तरम् । मञ्जुलेत्यन्यतः प्रोक्ता चित्रलेखा ततो भवेत् ।। ६७ ।। ततस्तु भ्रमराच्चापि पदमित्यतिसुन्दरम् । शार्दूलललितं पश्चात् ततः सुललितं भवेत् ।। ६८ ।। अनन्तरं चोपवनकुसुमं वृत्तमीरितम् । अत्र प्रस्तारगतितो भेदा: ह्यष्टादशाक्षरे ।। ६६ ।। वेदश्रु त्यवनीनेत्ररसयुग्मः(२६२१४४)मिता मताः । शेषाः स्वबुद्धया प्रस्तार्य विज्ञेया: स्वगुरूक्तितः ।। १०० ।। अथ प्रथमतो नागानन्दश्चैकोनविंशके । शार्दूलानन्तरं विक्रीडितं वृत्तं ततः स्मृतम् ।। १०१ ॥ ततश्चन्द्रं समाख्यातं चन्द्रमालेति च क्वचित् । ततस्तु धवलं वृत्तं धवलेति च पिङ्गले ॥ १०२ ।। ततः शम्भुः समाख्यातो मेघविस्फूर्जिता ततः । छायावृत्तं ततश्च स्यात् सुरसा तदनन्तरम् ।। १०३ ।। फुल्लदाम ततश्च स्यान्मृदुलात् कुसुमं ततः । प्रस्तारगत्या भेदाश्चैकोनविंशाक्षरे कृताः ॥ १०४ ।। वस्वष्टनेत्रश्रुतिदृग्भूतैः (५२४२८८) परिमिता: परे । भेदाः प्रस्तार्य बोद्धव्याः स्वबुद्धया शुद्धबुद्धिभिः ॥ १०५ ।। अथ विशाक्षरे पूर्व योगानन्दः' समीरितः । ततस्तु गीतिकावृत्तं गण्डका तदनन्तरम् ।। १०६ ।। गण्डकैव क्वच्चित्रवृत्तमन्यत्र वृत्तकम् । शोभावृत्तं ततः प्रोक्तं ततः सुवदना भवेत् ॥ १०७ ।। प्लवङ्गभङ्गाच्च पुनर्मङ्गलं वृत्तमुच्यते । ततः शशाङ्कचलितं ततो भवति भद्रकम् ॥ १०८ ।। ततो गुणगणं वृत्तमन्त्यं स्यादतिसुन्दरम् । प्रस्तारगत्या चावत्या भेदा रसमुनीषुभिः ।। १०६ ।। १. क.ख. नागानन्दः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy