SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ २८० ] वृत्तमौक्तिक - द्वितीयखण्ड [५० ५४.६७ ततोऽपि ललितं वृत्तं ललनेत्यपि च क्वचित् । कामदत्ता ततः प्रोक्ता ततो वसन्तचत्वरम् ।। ५४ ॥ प्रमुदितवदना-मन्दाकिन्यो दो न वास्तवो घटितः । नामान्तरेण भेदो गणतो यदितो न चोद्दिष्टः ॥ ५५॥' प्रमुदितादूर्ध्वं' वदने वदनाऽन्यत्र च प्रभा । विख्याता कविमुख्यस्तु ततः स्यान्नवमालिनी ।। ५६ ।। सर्वान्त्यं नयनात् पूर्व तरलं वृत्तमीरितम् । अत्र प्रस्ताररीत्या तु भेदा रव्यक्षरे स्थिताः ।। ५७ ।। रसरन्ध्रखवेदस्तु(४०९६) शेषाः सूच्याः सुबुद्धिभिः । त्रयोदशाक्षरे पूर्व वाराहः कथितो मया ।। ५८ ॥ मायावृत्तं ततस्तु स्यात् क्वचिन्मत्तमयूरकम् । ततस्तु तारकं वृत्तं कन्दं पङ्कावली तथा ॥ ५६ ॥ ततः प्रहर्षिणीवृत्तं रुचिरा तदनन्तरम् ।। चण्डीवृत्तं ततः प्रोक्तं ततः स्यान्मञ्जुभाषिणी ॥ ६ ॥ शम्भो सुनन्दिनी चेयं चन्द्रिका तदनन्तरम् । क्वचिदुत्पलिनीवृत्तं चन्द्रिकवोच्यते बुधः ॥ ६१॥ कलहंसस्ततश्च स्यात् सिंहनादोप्ययं क्वचित् । ततो मृगेन्द्रवदनं क्षमा. पश्चात् ततो लता ।। ६२ ।। ततस्तु चन्द्रलेखाख्यं चन्द्रलेखेत्यपि क्वचित् । ततश्च सुद्य तिः पश्चाल्लक्ष्मीवृत्तं मनोहरम् ।। ६३ ।। ततो विमल-पूर्व तु गतीतिरुचिरं भवेत् । प्रस्तारान्त्यं वृत्तमेतद् भावितं कविपुङ्गवैः ॥ ६४ ॥ प्रस्तारगत्या विज्ञेया भेदाः कामाक्षरे बुधैः । नेत्रग्रहेन्दुवसुभिः (८१९२)शेषान् प्रस्तार्य सूचयेत् ॥ ६५ ।। अथ मन्वक्षरे पूर्व सिंहास्यः कथितो बुधैः । ततो वसन्ततिलका ततश्चकं प्रकीर्तितम् ।। ६६ ॥ असम्बाधा ततश्च स्यात् ततः स्यादपराजिता । कलिकान्तं प्रहरणं वासन्ती स्यादनन्तरम् ॥ ६७ ।। १. पद्य नास्ति क. प्रतौ। २. ख. प्रमुदितशब्दस्यान्ते । ३. क. वान्ते । ४. ख. शेषास्तूह्याः।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy