SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ एकादशं दोष-प्रकरणम् अथ दोषाः अर्थतयोनिरूप्यन्ते दोषाः कविसुखावहाः। यान्विदित्वैव सुकविः काव्यं कत्तुं मिहार्हति ॥१॥ [व्या०] अथेति । विरुदावली-खण्डावली-कथनानन्तरमेतयो:-विरुदावली-खण्डावलीभेदयोर्दोषाः निरूप्यन्ते । शेषं सुगमम् ॥१॥ तान् पाह अमैत्री निरनुप्रासो दौर्बल्यं च कलाहतिः । असाम्प्रतं हतौचित्यं विपरीतयुतं पुनः ॥ २ ॥ विशृङ्खलं स्खलत्तालं नवदोषान्न वेत्ति यः । कुर्याच्चैतत् तमोलोके उलूकोऽसौ भवेन्नरः ॥३॥ [व्या०] प्रस्यार्थः-प्रमैत्री-प्रक्षरमंत्रीराहित्यं । मिरनुप्रासः-अनुप्रासाऽभावः। दौर्बल्यंश्लथवर्णता इति निगदेनैव व्याख्यातं । कलाहतिः-अन्यपदे पूर्ववर्णस्थानेऽन्यवर्णपाठः । यथा कमलवदन सुविमलजल। रञ्जितरण सञ्जितगुण। प्रयुक्तवर्णनं-हतौचित्यं । स्पष्टमुदाहरणम् । श्लिष्टवर्णस्थाने मधुरवर्णस्थितिः, मधुरस्थाने वा श्लिष्टस्थापन, विपरीतयुतं । विशृङ्खलं-न्यूनाधिकश्लिष्टादिवर्णानां ग्रथनम् । स्खलत्तालंयतिभ्रष्टं लक्षणानुसाराद् ऊह्यानि उदाहरणानि। इत्येतावन्नवदोषान् यः कविः न वेत्ति-न जानाति अविद्वांश्च यदि एतत्-पूर्वोक्तं विरुदावली-खण्डावलोलक्षणं यो नरः कविः काव्यं कुर्यात् तदा तमोलोके-गाढान्धकाराज्ञानलक्षणे लोके असौ उलूको-दिवान्धःपक्षी भवेदित्यर्थः । तस्माद् दोषज्ञाने महान् गुणः, तद्वैपरीत्ये महबनिष्टं इत्यन्वयव्यतिरेकसिद्धोऽयमर्थः । इति सर्व निर्मलं मङ्गलम् । लक्ष्मीनाथतनूजेन चन्द्रशेखरसूरिणा। छन्दःशास्त्र विरचितं वात्तिकं वृत्त मौक्तिकम् ॥ इति दोषनिरूपण-प्रकरणमेकादशम् ॥११॥
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy