________________
प० ४.६]
६. विरुदावली - प्रकरणम्
[ २५६
दुष्टदुर्दमारिष्टकण्ठीरवकण्ठविखण्डनखेलदष्टापद नवीनाष्टापदविस्पद्धिपदाम्बरपरीत गरिष्ठगण्डशैलसपिण्डवक्षःपट्ट पाटव
दण्डितचटुलभुजङ्गम कन्दुकविलसितलचिम भण्डिल विचकिल मण्डित सङ्गरविहरणपण्डित दन्तुरदनुजविडम्बक
कुण्ठितकुटिलकदम्बक । खचिताखण्डलोपलविराजदण्डजराजमणिम[य] कुण्डलमण्डितमञ्जुलगण्डस्थ• लविशङ्कटभाण्डीरतटीताण्डवकलारञ्जितसुहृन्मण्डल
नन्दविचुम्बित-कुन्दनिभस्मित गन्धकरम्बित शन्दविवेष्टित
तुन्दपरिस्फुर-दण्डकडम्बर । - "दुर्जनभोजेन्द्रकण्टककण्ठकन्दोद्धरणोद्दामकुद्दाल विनम्रविपदारुणध्वान्तविद्रावणमार्तण्डोपमकृपाकटाक्ष शारदचन्द्र मरीचिमाधुर्यविडम्बितुण्डमण्डल
लोष्ठीकृतमणि-कोष्ठीकुलमुनिगोष्ठीश्वर मधुरोष्ठीप्रिय परमेष्ठी] 'डित परमेष्ठीकृतनर
धीर ! उपहितपशुपालीनेत्रसारङ्गतुष्टिः, प्रसरदमृतधाराधोरणीधौतविश्वा । पिहितरविसुधांशुः प्रांशुतापिञ्छरम्या, रमयतु बकहन्तुः कान्तिकादम्बिनी वः ।
इति मिश्रकलिका ॥३॥ अयं चण्डवत्तस्य मिश्रितः प्रभेदः । एवमन्येपि ।
इति विरुदावल्यां चण्डवृत्तमेव दण्डकत्रिभङ्गयाद्यवान्तर
त्रिभङ्गीकलिका प्रकरणं तृतीयम् ॥३॥ इति श्रीवृत्तमौक्तिके वात्तिके सलक्षणं चण्डवृत्तप्रकरणं समाप्तम् ।। १. ख. तण्डिल। २. क. विचकित। ३. गोवि. मणिम[य]नास्ति। ४. गोवि. दुर्जनभोजेन्द्रकटककदम्बोद्धरणो। ५. गोवि. शारदाचण्ड-। ६ [-] कोष्टगतोंशो नास्ति क. प्रतौ। ७. क. ख. वहकंतुः।