________________
प० ३३
]
६. विरुदावली
-
प्रकरण
निनिन्द निजमिन्दिरा वपुरवेक्ष्य यासां श्रियं,
विचार्य गुणचातुरीमचलजा च लज्जां गता । लसत् पशुपनन्दिनीततिभिराभिरानन्दितं, भवन्तमतिसुन्दरं व्रजकुलेन्द्र वन्दामहे | रसपरिपाटी स्फुटतरुवाटी मनसिजघाटी प्रियनतशाटी'.
हर जय वीर !
सम्भ्रान्तैः सषडङ्गपातमभितो वेदैर्मुदा वन्दिता,
सीमन्तोरि गौरवादुपनिषद्देवीभिरप्यर्पिता । नानम्रं प्रणयेन च प्रणयतो तुष्टामना' विकृतो',
मृते मुरलीरुतिर्मुरिपोः शर्माणि निर्मातु न: । सविरुदं वञ्जुलमिदम् |२८|
२६. अथ कुन्दञ्चण्डवृत्तम्
द्वितीयषष्ठी मधुरौ श्लिष्टो वा क्वापि तो यदि । स्याताम् भजी तदा कुन्दम्
[ व्या०] एतदुक्तं भवति । यदि द्वितीयषष्ठौ वर्णों मधुरौ - परसवर्णो क्वापि पदे श्लिष्टो वा, तौ वर्णो स्याताम् । श्रथ च भजी - भगणजगणौ भवतः, तदा कुन्दं इति नाम चण्डवृत्तं भवति । षडक्षरमिदं पदम् । पदविन्यासस्तु पूर्ववत् । यथा
नन्दकुलचन्द्र लुप्तभवतन्द्र कुन्दजयिदन्त दृष्टकुलहन्त
रिष्टसुवसन्त मिष्टसदुदन्त संदलितमल्लि - कन्दलितवल्लि - गुञ्जदलिपुञ्ज-मञ्जुतरकुञ्ज
[ २४७
लब्धरतिरङ्ग हृद्यजनसङ्गशर्मलसदङ्ग हर्षकृदनङ्ग मत्त परपुष्ट- रम्य कलघुष्ट गन्धभरजुष्ट पुष्पवनतुष्ट कृत्तखलक्ष * युद्धनयदक्ष
१. गोवि. प्रियनवशाटी- । २. गोवि. हृष्टात्मना । ३. गोवि. भिष्टुता । ४. गोवि
यक्ष ।