SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ २१. ] वृत्तमौक्तिक - द्वितीयखण्ड [८-६ ग्रन्थान्तरे तु प्रकारान्तरेण चतुर्विधमेव गद्य तल्लक्षणमुपलक्षितं विचक्षणः । यथा वृत्तबन्धोज्झितं गद्य मुक्तकं वृत्तगन्धि च । भवेदुत्कलिकाप्रायं कुलकं च चतुर्विधम् ॥ ८ ॥ प्राद्य समासरहितं वृत्तभागयुतं परम् । अन्यं दीर्घसमासाढ्य तुर्यं चाल्पसमासकम् ॥ ६ ।। तत्र मुक्तकं, यथा गुरुर्वचसि' पृथुरुरसि । इत्यादि । वृत्तगन्धि–'समरकण्डूल' इत्यादिनवोदाहृतम् । उत्कलिकाप्रायं तु-व्यपगतघनपटलममलजलनिधिसदशमम्बरतलं विलोक्यते अञ्जनचूर्णपुजश्यामलं शार्वरं तमस्त्यायत । इत्यादि । यथा वा, प्राकृते चापि अणिसविसुमरणि' सिदसरविदलिदसमरपरिगदपवरपरबलहणिदमअगलहलहलिदसमलजलणिहिसरिससमत्तुसमूहसंखुहिप्रवैरिणप्ररणाअरीणिवह जी महाराअ चक्कवट्टि करुणारा । इत्यादि । कुलकम्, यथा गुणरत्नसागर जगदेकनागर कामिनीमदनजनचित्तरञ्जन करुणापरायणनारायणचरणस्मरणसमासादितपुरुषार्थचतुष्टयप्रार्थनीयगुणगण शरणागतरक्षणविचक्षण जय जय । इत्यादि । इति श्रीकविशेखरचन्द्रशेखरविरचिते श्रीवत्तमौक्तिके वात्तिके गद्यनिरूपणमष्टमं प्रकरणम् ॥८॥ १. ख. गुरुवञ्चसि । २. ख- सुमरःणि ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy