________________
२०६ ]
वृत्तमौक्तिक-द्वितीयखण्ड
[प०१६ - १८
एकस्वरोपसर्गेण विच्छेद: श्रुतिसौख्यहृत् ।
यथा पिनाकपाणिं प्रणमामि स्मरशाशनम् ॥ १६ ॥ इत्यादि, कविकल्पलतायां वाग्भटनन्दनेन देवेश्वरेणाभ्यधायि । छन्दोमञ्जयाँ 'तु
यतिजिह्वेष्टविश्रामस्थानं कविभिरुच्यते ।
सा विच्छेदविरामाद्यैः पदैर्वाच्या निजेच्छया ॥ १७ ॥ इति सामान्यलक्षणमुक्तम् । किञ्च
क्वचिच्छन्दस्यास्ते यतिरभिहिता पूर्वकृतिभिः, पदान्ते सा शोभां व्रजति पदमध्ये त्यजति च । पुनस्तत्रैवासी स्वरविहितसन्धिः श्रयति तां,
यथा कृष्णः पुष्णात्वतुलमहिमा मां करुणया ।। १८ ।। इति छन्दोगोविन्दे' गङ्गादासेनाप्युक्तमित्युपरम्यते । इति सर्वमङ्गलम् ।
इति श्रीवृत्तमौक्तिके वातिके द्वितीयपरिच्छेदे
यतिनिरूपण-प्रकरणं सप्तमम् ।
१. क. ख. सौख्यकृत् । *टिप्पणी-१. छन्दोमञ्जरी, प्रथमस्तबक, प० १२, १३ ।
.२. 'गोविन्दे' इत्यस्य स्थाने 'मञ्जयाँ' इति पाठ एव समीचीनोऽस्ति गङ्गादास.
कर्त्तत्त्वात्।