________________
०१ - १७ ]
६. वैतालीय - प्रकरण
[ व्या०] विषमंरेव चतुभिरापातलिकापदैर्न लिनाख्यं वैतालीयमित्यर्थः ।
यथा
कुञ्चितकेशी नलिनाक्षी, स्थूलनितम्बा रुचिकान्ता । पद्महस्ता रुचिरोष्ठी, गोष्ठीरसिका परिणेया ॥ & ॥ इति नलिनाख्यं वैतालीयम्
५. श्रथापरं नलिनम्
समचरणैरपि चान्यदुदीते ॥ १० ॥
[व्या०] समेरेव चतुभिरापातलिकापावैरपरं नलिनं भवतीत्यर्थः ।
यथा
पङ्कजलोचनमम्बुददेहं, बालविनोद - सुनन्दितगेहम् ।
पद्म शम्भुकृतस्तुतिमीशं चिन्तय कृष्णमपारमनीषम् ।। ११ ।। इति श्रपरं नलिनाख्यं वैतालीयम् ५. ६. श्रथ दक्षिणान्तिका वैतालीयम्
द्वितीयलस्यान्त्ययोगतः, पदेषु सा स्याद् दक्षिणान्तिका ॥ १२ ॥
[व्या०] द्वितीयलघोरन्त्येन - तृतीयेन योगतश्चतुर्षु पादेषु यत्र सा दक्षिणान्तिका इत्यर्थः । प्रतएव शुद्धवैतालीयस्य विषमपदेर्द क्षिणान्तिका, समपदेरुत्तररान्तिका इति शम्भुरप्याह ।
यथा
aat मरुद्दक्षिणान्तिको, वियोगिनीप्राणहारकः । प्रकम्पिताशोक चम्पको, वसन्तजोऽनङ्गबोधकः ।। १३ ।। यथा वा ममप्रत्युदाहरणम्'
नमोऽस्तु ते रुक्मिणीपते, जगत्पते श्रीपते हरे ।
भवाम्बुधेस्तारयाशु मां, विधेहि सन्मति शुभाम् ॥ १४ ॥ इति दक्षिणान्तिका वैतालीयम् ६. ७. अथ उत्तरान्तिका वैतालीयम्
शुद्ध वैतालीयस्य समपदैरुत्तरान्तिका ।। १५ ।
यथा
·
सहसा सादितकंसभूपति, धृतगोवर्द्धनशैलमुद्ध रम् । यमुनाकुञ्जविहारिणं हरि, यदुवीरं कलयाम्यहर्निशम् ॥ १६ ॥ इति उत्तरान्तिका वैतालीयम् ७.
[ १९७
८. श्रथ प्राच्यवृत्तिः
तुर्यस्य तु शेषयोगतः, प्राच्यवृत्तिरिह युग्मपादयोः ॥ १७ ॥
१. ख. ममै ( वो) दाहरणम् ।