________________
१६४]
वृत्तमौक्तिक - द्वितीयखण्ड
[ ५० ५३६ - ५४३
अथ द्वाविंशत्यक्षरम् तत्र प्रथमम्
२३६. विद्यानन्दः यस्मिन् वृत्ते रुद्रप्रोक्ताः कुन्तीपुत्रा नेत्रर्ने त्रैर्वर्णाः पादप्रान्ते, षड्भिः कर्ण विश्रामः स्यात् तद्वद् यस्मिन् रम्यैः पाण्डोः पुत्रैः स्यात् तस्यान्ते । श्रीमन्नागाधीशेनोक्त सारं वृत्तं श्रव्यं भव्यं नव्यं काव्यं कान्ते !, बाले ! लीलालोले ! मुग्धे ! विद्यानन्दं दिव्यानन्दं सम्यग् धेहि स्वान्ते ।।५३९।।
काशीक्षेत्रे गङ्गातीरे चञ्चन्नीरे विश्वेशांघ्रिद्वन्द्वं सम्यग् ध्यात्वा, कृत्वा तत्तन्मात्रायुक्तप्राणायाम शोच्यं नश्यत्तत्तसङ्गमुक्त्वा । मायाजालं सर्वं विश्वं मत्वा चित्ते रम्यं हयं पुत्राः किञ्चिन्नतच्छस्वत्कामक्रोधक्रौर्याक्रान्तः श्रान्तः प्रान्ते नाहं देहं सोऽहं तत्सत् ।।५४०।।
इति विद्यानन्द : २३६.
२३७. प्रथ हंसी यस्यामष्टौ पूर्वं हारास्तदनु च दिनपतिमित वरवर्णाः, दण्डाकाराः कान्ते ! चञ्चत्करयुगविलसितवलयविलोले । तद्वद्दीर्घावन्त्यौ वणी *यतिरिह विलसति वसुभुवनाणः, सा विज्ञ या हंसी बाले ! प्रभवति यदि किल नयनयुगार्णा ॥५४१॥
प्रौढध्वान्ते प्रावटकाले क्षितितलविलसिततरलितकन्दे, कालिन्दीये कुजे कुजे त्वदभिसरणकृत-सरभसवेषा। राधात्यन्तं बाधायुक्ता प्रसरति मनसिजविशिखविलूना,
वन्यस्रग्भिविरचितभूषस्त्वमपि च विहरसि सरसकदम्बे' ॥ ५४२ ॥ यथा वा
श्रीकृष्णेन क्रीडन्तीनां क्वचिदपि वनभुवि मनसिजभाजां, गोपालीनां चन्द्रज्योत्स्नाविशदरजनिगुरुजनितरतीनाम् । धर्मभ्रश्यत्पत्रालीनामुपचितरभसविमलतनुभासां, 'रासक्रीडायासध्वंसी मुदमुपनयति' मलयगिरिवातः ॥ ५४३ ॥
इति हंसी २३७.
"चिह नगतोऽयं पाठो नास्ति क. प्रतो। १. १. क. रासक्रीडायापासध्वंसमुदमुपनयमिद । “टिप्पणी-१ पादोऽयं सर्वथाऽशुद्धः वर्णद्वयवर्द्धनाद्दीर्घद्वयरहितत्वाच्च । अतोऽस्मिन्
पादे.यदि 'विरचित'पदस्थाने 'सष्टा' पदयोजना स्यात्तदोषपरिहारसंभवः ।