________________
१४२ ]
यथा
यथा
वृत्तमौक्तिक - द्वितीयखण्ड
१९६. श्रथ पद्मकम् रचय नगणं सं तस्यान्ते धेहि पश्चान्मकारं,
तदनु चरणे तस्य द्वन्द्वं कारयाशु द्विहारम् । समुनिविधुभिः पादे छिन्नं पिङ्गलेन प्रयुक्त,
कलय हृदये छन्दः श्रेष्ठं पद्मकं वृत्तसारम् ॥। ४३७ ॥
प्रयमिह पुरः पारावार: चेतसा गम्यपारः,
सपदि सहितः पादः सङ्घर्भाषणो वीचिहस्तैः । कपिगणमहासेना चेयं पारमुत्प्रेक्षमाणा,
रचय यदिह न्यायं शीघ्रं वानराणां पतेः तत् ॥ ४३८ ॥
इति पद्मकम् १६६.
१६७. श्रथ दशमुख हरम्
जलनिधिपरिमित नगणमिह विरचय,
[ ५० ४३७- ४४०
तदनु च शरपरिमितलघुमपि कलय ।
सकलफणिगणनरपतिरिति हि वदति,
सखि ! कलय निजहृदि दशमुखहरमिति ॥ ४३९ ।।
जय ! जय ! रघुवर ! जलधितरणनिपुण !, दशरथसुत ! विबुधनिकरकथितगुण सुरविमतदशवदन कुलकदनकर !
1
सुरगणनुतचरण ! शमिह मम वितर ।। ४४० ॥
इति दशमुखहरम् १६७.
अत्रापि प्रस्तारगत्या सप्तदशाक्षरस्य एकं लक्षं एकत्रिंशत् सहस्राणि द्विसप्ततिश्च १३१०७२ भेदास्तेषु कियन्तः प्रोक्ताः शेषभेदाः प्रस्तार्य समुदाहरणीया, इत्यलमतिविस्तरेण ' * ।
इति- सप्तदशाक्षरम् ।
१. ख. श्रयमपि । २. ख. पते । ३. पंक्तित्रयं नास्ति क. प्रतौ ।
★ टिप्पणी १ - सप्तदशाक्षरवृत्तस्यावशिष्टप्राप्तभेदाः पञ्चमपरिशिष्टेऽऽलोडनीयाः ।