SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ ५० ४१५ - ४१६] १. वृत्तनिरूपण - प्रकरण [ १३० यथा पा, कृष्णकुतूहलेविना तत्तद्वस्तु क्वचिदपि च भाण्डानि भगवत्, प्रसादान्ताऽभूवन् प्रतिभवनमित्यद्भुतमभूत् । भयोद्यद्वलक्ष्याऽवितथवचसस्तच्चरणयो निपेतुस्ता हस्ताहृतवसनमुक्तामणिगणाः ॥ ४१५ ॥ यथा वा, रूपगोस्वामिकृत-हंसदूतकाव्ये*दुकूलं बिभ्राणो दलितहरिताला तिहरं, जपापुष्पश्रेणीरुचिरुचिरपादाम्बुजतलः । तमालश्यामाङ्गो दरहसितलीलाञ्चितमुखः, __ परानन्दाभोगः स्फुरतु हृदि मे कोऽपि पुरुषः ॥ ४१६ ॥ यथा वा, श्रीशङ्कराचार्यकृत-सौन्दर्यलहरीस्तोत्रे*दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा, दवीयांसं दीनं स्नपय कृपया मामपि शिवे । अनेनाऽयं धन्यो भवति न च ते हानिरियता , वने वा हर्पा वा समकरनिपातो हिमकरः ॥ ४१७ ।।' इत्यादि महाकविप्रबन्धेषु शतशो निदर्शनानि द्रष्टव्यानि । इति शिखरिणी १८८. १८६. अथ हरिणी द्विजरसयुता कर्णद्वन्द्वस्फुरद्वरकुण्डला, कुचतटगतं पुष्पं हारं तथा दधती मुदा । विरुतललितं संबिभ्राणं पदान्तगनूपुरं, रसजलनिधिश्छिन्ना नागप्रिया हरिणी मता ।। ४१८ ॥ सपदि कपयः शौर्यावेशस्फुरत्करजद्विजाः, गिरिवरतरूनुन्मृद्नन्तस्तथोत्पथगामिनः । अहमहमिकां कृत्वा वारांनिधेरतिलङ्घने', तटभुवि गताः संप्रेक्षन्ते मुखानि परस्परम् ।। ४१६ ॥ यथा १. क. प्रतो नास्तीदम्पद्यम् । २. ख. संबिभ्राणा । ३. स्व. लंघते । *टिप्पणी-१ श्रीरूपगोस्वामिकृत-हंसदूतम् प्रथमपद्यम् २ शंकराचार्यकृत-सौन्दर्यलहरी पद्य ५७
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy